भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 471, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 471

४२८ कथासरित्सागर

गिरिशाराधनप्राप्यः पुत्रस्ते नारदोऽभ्यधात् । तद्देवि वरदोऽवश्यमाराध्यः स शिवोऽत्र नः ॥१४०॥ इत्युक्ता वत्सराजेन तत्कालं चागतं सा । देवी सम्भाव्यमेवास्तु चकार व्रतनिश्चयम् ॥१४१॥ तस्यामात्तव्रतायां तु स राजापि समन्त्रिकः । सराष्ट्रश्चापि विदधे शङ्कराराधनव्रतम् ॥१४२॥ त्रिरात्रोपोषितौ तौ च दम्पती स विमुस्ततः । प्रसादप्रकटीभूतः स्वयं स्वप्ने समादिशत् ॥१४३॥ उत्तिष्ठतं स युवयोः कामांशो जनिता सुतः । नाथो विद्याधराणां यो भविता मत्प्रसादतः ॥१४४॥ इति वचनमुदीर्य चन्द्रमौलौ सपदि तिरोहिततां गते प्रबुध्य । अधिगतवरमाशु दम्पती तौ प्रमदमकृत्रिममापतुः कृतार्थौ ॥१४५॥ उत्थाय चोषसि ततः प्रकृतीर्विधाय । तत्स्वप्नकीर्तनसुधारसतर्पितास्ताः । देवी च सा नरपतिश्च सवन्धुभृत्यौ । बद्धोत्सवौ विदधतुर्व्रतपारणामि ॥१४६॥ कतिपयदिबसापगमे तस्याः स्वप्ने जटाधरः पुरुषः । कोऽप्यथ देव्या वासवदत्तायाः फलमुपेत्य ददौ ॥१४७॥ ततः स विनिवेदितस्फुटपवित्रस्वप्नया सह गृहं प्रमुदितस्तया समभिनन्दितो मन्त्रिभिः । विचिन्त्य शशिमौलिनो फलनिभं दत्तं सुतं । मनोरथमदूरगं गणयति स्म वत्सेश्वरः ॥१४८॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे नरवाहनदत्तजनन लम्बके प्रथमस्तरङ्गः ।

द्वितीयस्तरङ्गः (पूर्वानुवृत्ता) वत्सराजकथा - मुखबन्धः अथ वासवदत्ताया वत्ससहृदयोत्सवः । सम्बभूवाचिराद् गर्भः कामांगावतरोज्ज्वलः ॥१॥