भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 493, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 493

४५० कथासरित्सागर सवस्तया मनोरथ्या पत्न्या मित्रेण तेन च। कृतार्थः शबरन्द्रेण सत्रातिष्ठमहं सुखी ॥१५०॥ स च इत्ययीकृतारमीयदशवासरसंस्तवः। भूयस्तास्मद्गृहेष्वेव न्यवसच्छबराधिपः ॥१५१॥ परस्परोपकार्येषु सर्वकालमतृप्तयोः। स द्वयोरगमत्कालो मम तस्य च मित्रयोः ॥१५२॥ अविराच्च मनोरथ्यां तस्यामजनि मे सुतः। बहिष्कृतः कुरुत्येव कुरुतस्त्यः हृदयासवः ॥१५३॥ हिरण्यदत्तनामा च स धनर्वृद्धिमाययौ। कृतविद्यो यथाबन्ध परिणीतोऽभवत्ततः ॥१५४॥ सद्दृष्ट्वा जीवितफल पूर्ण मत्वा च मत्पिता। वृद्धो भागीरथीं प्राप्तास्तवारो देहमुज्झितुम् ॥१५५॥ ततोऽहं पितृशोकार्तः कथञ्चिद्वान्धवैर्धृतिम्। ग्राहितो गृहभारं स्वमुद्वोढं प्रतिपन्नवान् ॥१५६॥ तदा मनोरथीमुग्धमुखदर्शनमेकतः। अन्यत शबरन्द्रेण सङ्गतो मां व्यनोदयत् ॥१५७॥ ततः सत्पुत्रसानन्दा मुक्ताग्रमत्तोरमाः। सुहृत्समागमसुखा गतान्त निश्रा मम ॥१५८॥ कालेनार्थ प्रवृद्ध मामप्रह्वीश्चिबुकं जरा। किं गृह्यथापि पुत्रेति प्रीत्येव स्पृशतो हितम् ॥१५९॥ तनाहं महसोत्पन्नवैराग्यस्तेनय निजम्। कुटुम्बभारोद्वहनं वनं वाञ्छन्नयोजयम् ॥१६०॥ सदारश्च गतोऽभूव गिरि कासञ्जरं ततः। मत्स्नेहव्यक्तराज्येन मम शबरभूपुना ॥१६१॥ तत्र प्राप्तेन चारमीया जातिर्विद्याधरी मया। शापदश्च प्राप्तपर्यन्तः स शापः गहसा स्मृतः ॥१६२॥ शश्च पत्न्यै मनोरथ्यै तदवास्यातवाहनम्। अन्यं च शबरन्द्राय मुमुक्षुर्मानुषा तनुम् ॥१६३॥ भार्यामित्र इम एव भूयास्तां म्मरतो मम। अन्यजन्मस्वप्यायुक्त्वा हृदि कृत्वा च शङ्करम् ॥१६४॥ मया गिरिजगात्समाधिश्रित्य प्रपम ततः। ताभ्यां स्वपत्नीमित्राभ्यां सह मुक्तं शरीरकम् ॥१६५॥