भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 497, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 497

४५४ कथासरित्सागर कस्त्वं किमीहसे किं च माता त्वां क्षोभतीति तम्। स पप्रच्छ ततः सोऽपि तस्मै वृत्तान्तमब्रवीत् ॥१८०॥ कद्रूविनतयो कथा पुरा कश्यपभार्ये द्वे कद्रूश्च विनता तथा। मिथः कथाप्रसङ्गेन विवादं किल चक्रतुः ॥१८१॥ आद्या श्यामान् हरेरश्वानवादीदपरा सितान्। अन्योन्यदासभावं च पणमत्र बबन्धतुः ॥१८२॥ ततो जयैषिणी कद्रूः स्वैरं मार्गैर्निजात्मजैः। विषफूत्कारमलिनैरस्याश्वानकारयत् ॥१८३॥ तादृशांश्चोपदर्श्यैतान्विनतां छद्मना जिताम्। दासीञ्चकार कष्टा हि स्त्रीणामन्यामहिष्णुता ॥१८४॥ तद्बुद्ध्वागत्य विनतातनयो गरुडस्तदा। सान्त्वेन मातुर्निर्यत्यैमुक्तिं कद्रूमयाचत ॥१८५॥ एतं कद्रुसुता नागा विचिन्त्यैवं तमब्रुवन्। भो वैनतेय क्षीराब्धेः प्राग्दधो मथितुं सुरैः ॥१८६॥ ततः सुधां समाहृत्य प्रतिवस्तु प्रयच्छ नः। मातरं स्वीकुरुष्वाथ मत्वान्दिं यन्निषां घटः॥१८७॥ एतन्नागवचः श्रुत्वा गत्वा च क्षीरवारिधिम्। सुधार्थं वधयामास गरुडो गुह्यकौरवम् ॥१८८॥ ततः पराक्रमप्रीतो वेधस्तत्र स्वयं हरिः। तुष्टोऽस्मि त वरं कञ्चिद् वृणीष्वेत्याविशेश तम् ॥१८९॥ नागा भवन्तु मे भक्ष्या इति सोऽपि हरेस्ततः। वैनतेयो वरं वव्रे मातुर्दास्येन कोपितः ॥१९०॥ तथेति हरिणादिष्टो निजवीर्याज्जितामृतः। स ववमथ दातुं गर्वितो ज्ञातवस्तुना ॥१९१॥ तथा पक्षीन्द्र ! कार्यं ते यथा मूढं मुच्यते। नागैः सथा यथा चैनां तेभ्यः प्रत्याहराम्यहम् ॥१९२॥ एतच्छ्रुत्वा तथेत्युक्त्वा स बष्णनवरोऽसुरः। सुधाकलशमादाय तार्क्ष्यो नागानुपाययौ ॥१९३॥