कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 501, कुल 876 में से
संदर्भ में पढ़ें४५८ कथासरित्सागर तेन क्रमेण वासस्या फणिनोऽत्र क्षयं गताः। अहं च शङ्खचूडाख्यो नागो वारे ममाद्य च ॥२०८॥ अतोऽहं गरुडाहारकृतोबध्यशिलामिमाम्। मातुश्च शोच्यतां प्राप्तो नागराजनिवेशतः ॥२ ०९॥ इति तस्य वचः श्रुत्वा शङ्खचूडस्य दुःखितः। सान्त्वयंस्तं स जीमूतवाहनस्तमभाषत ॥२१०॥ अहो किमपि निःसत्त्वं राजत्वं बत वासुकेः। यत्स्वहस्तेन नीयन्ते रिपोरामिषतां प्रजाः ॥२११॥ किं न प्रथममात्मैव तेन दत्तो गरुत्मते। क्लीबेनाभ्यर्थिता केयं स्वकुलक्षयसाक्षिता ॥२१२॥ उत्पद्य कश्यपात्पापं तार्क्ष्योऽपि कुरुते कियत्। देहमात्रकृते मोहः कीदृशो महतामपि ॥२१३॥ तदहं तावदद्यैकं रक्षामि त्वां गरुत्मतः। स्वशरीरप्रदानेन मा विषादं वृथा सखे' ॥२१४॥ तच्छ्रुत्वा शङ्खचूड़ोऽपि धैर्यवित्पुवाच तम्। शान्तमेतन्महासत्त्व ! मा स्मैवं भाषथाः पुनः ॥२१५॥ न काचस्य कृते जातु युक्ता मुक्तामणेः क्षतिः। न चाप्यहं गमिष्यामि कथां कुलकलङ्किताम् ॥२१६॥ इत्युक्त्वा तं निषिध्यैव मातुर्जीमूतवाहनम्। भत्त्वा गरुडवेलां च स क्षणास्तरगामिनीम् ॥२१७॥ शङ्खचूड़ो ययौ तत्र वारिधेस्तीरवर्तिनम्। अन्तकाले नमस्कर्तुं गोकर्णाख्यमुमापतिम् ॥२१८॥ गते तस्मिंश्च कारुण्यनिधिर्जीमूतवाहनः। तत्त्राणायात्मदानेन बुबुधे लब्धमन्तरम् ॥२१९॥ ततस्तद्विस्मृतमिव क्षिप्रं कृत्वा स्वमुक्तिदं। कार्यापवेगादभ्यमुञ्चन्न मित्रवसुं गृहम् ॥२२०॥ तत्क्षणं च समासन्नताक्ष्र्यपक्षानिलाहता। तत्सत्त्वदर्शनाश्चर्यादिव सा मूर्ध्न्यूधयत् ॥२२१॥ तत्राहीर्रिपुमायान्तं मत्वा जीमूतवाहनः। परानुकम्पी तां बध्यशिलामभ्यारुरोह सः ॥२२२॥