भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 521, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 521

४०८ कथासरित्सागर यौगन्धरायणः प्राङ्मरुभूतिं हरिशिखं रुमण्वानथ । गोमुखमित्येकनामा तपन्तकाख्यं वसन्तकश्च सुतम् ॥१९०॥ शान्तिकरोऽपि पुरोधा भ्रातृसुतं शान्तिसोममपरं च। वैश्वानरमर्पितवान्पिङ्गलिकापुत्रकौ यमजौ ॥१९१॥ तस्मिन्क्षणे च नभसो निपपात दिव्या नान्दीनिनादसुभगा सुरपुष्पवृष्टिः । राजा ननन्द च तथा महिषीसमेत- सत्कृत्य तत्र सचिवात्मजमण्डल तद् ॥१९२॥ बाल्योऽपि तैरभिमतैश्च मन्त्रिपुत्रै पञ्चभिस्तदेकनिरतैश्च स राजपुत्रः । युक्तः सदैव नरवाहनदत्त आसी- द्युक्तो गुणैरिव महोदयहेतुभूतैः ॥१९३॥ तं च क्रीडाञ्चलितललिताम्यक्तनर्माभिलापं यान्तं प्रीतिप्रवणमनसामङ्कतोऽङ्कं नृपाणाम्। पुत्रं स्मेराननसरसिज सादरं पश्यतस्ते सदानन्दाः किमपि दिवसा वत्सराजस्य जग्मुः ॥१९४॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे नरवाहनदत्तजनन लम्बके तृतीयस्तरङ्गः। समाप्तश्चायं नरवाहनदत्तजनन लम्बकश्चतुर्थः।