कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 523, कुल 876 में से
संदर्भ में पढ़ेंचतुर्दारिका नाम पञ्चमो लम्बकः इद गुरुगिरीन्द्रजाप्रणयमन्वराम्बोलना त्पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम्। प्रसङ्ग रसयन्ति य विगतविघ्नलब्धद्धयो धुरं दधति वैबुधीं भुवि भवप्रसादेन त ॥ प्रथमस्तरङ्गः मदघूर्णितवक्त्रोत्थै सिन्दूरस्फुरयन् महीम्। हेरम्ब पातु वो विघ्नान् स्वतेजोभिर्बहूत्क्षिपन् ॥१॥ एवं स देवीसहितस्तस्थौ वत्सेश्वरस्तदा। नरवाहनदत्तं तमेकपुत्रं विवर्धयन् ॥२॥ तत्राशाकातरं तं च दृष्ट्वा राजानमेकदा। यौगन्धरायणो मन्त्री विजनस्थितमब्रवीत् ॥३॥ राजन् राजपुत्रस्य कृते चिन्ता त्वयाधुना। नरवाहनदत्तस्य विधातव्या कदाचन ॥४॥ असौ भगवता भावी भर्गेण हि भवद्गृहे। सर्वविद्याधराधीशचक्रवर्ती विनिर्मितः ॥५॥ विद्याप्रभावावेक्षञ्च बुद्ध्वा विद्याधराधिपाः। गताः पापेच्छया क्षोभं हन्तुंरमहिप्सवः ॥६॥ तद्विदित्वा च देवेन रक्षार्थं शशिमौलिना। एतस्य स्तम्भको नाम गणेशः स्थापितो निजः ॥७॥ स च तिष्ठत्यदृश्यः सम् रक्षतेतं सुतं तव। एतच्च क्षिप्रमभ्येत्य नारदो मे न्यवेदयत् ॥८॥ वत्सराजसभायां शशिनदैवस्यावगमनकथा इति तस्मिन् वदत्येव मन्त्रिणि व्योममध्यतः। किरीटी कुण्डली दिव्यः खड्गी चावातरत्पुमान् ॥९॥