भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 535, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 535

४८८ कथासरित्सागर

निर्गत्य च समादिश्य तत्क्षणं राजपूरुषान् । भ्रामयामास पटहं कृतश्रवणकौतुकम् ॥५२॥ विप्रः क्षत्रयुवा वा कनकपुरी योऽत्र दृष्टवाश्नगरीम् । वदतु स तस्मै राजा ददाति तनयां च यौवराज्यं च ॥५३॥ इति श्रुतस्ततस्तन्नगरं दत्तविस्मयम् । उदघोष्यत सर्वत्र पटहानन्तरं बुधैः ॥५४॥ केयं पुरेऽस्मिन्कनकपुरीनामाद्य घोष्यत । या वृद्धैरपि नास्माभिदृष्टा जातु न च श्रुता ॥५५॥ इत्येव धावन्पौराः श्रुत्वा सो तंन घोषणाम् । न पुन कश्चिदेकोऽपि मया दृष्टेत्यभाषत ॥५६॥ तावच्च तन्निवास्त्येकः शक्तिदेव इति द्विजः। बसुदेवतनुजस्तामश्रृणोत्तत्र घोषणाम् ॥५७॥ स युवा व्यसनी सद्यो द्यूतेन विवनीकृतः । अचिन्तयद्राजसुताप्राथनाकर्णनोन्मनाः ॥५८॥ द्यूतहारितनिश्शेषवित्तस्य मम नाधुना । प्रवेशोऽस्ति पितुर्गेहे नापि पण्याङ्गनागृहे ॥५९॥ तस्मादगतिकस्तावद् वरं मिथ्या ब्रवीम्यहम् । मया सा नगरी दृष्टेत्येव पटहघोषकान् ॥६०॥ को मां प्रत्येष्यभिज्ञानं केन दृष्टा कदा हि सा । स्यादेव च कदाचिन्मे राजपुत्र्या समागमः ॥ ६१॥ इति सञ्चिन्त्य गत्वा तान् स राजपुरुषांस्तदा । शक्तिदेवो मया दृष्टा सा पुरीत्यबवन्मृषा ॥६२॥ विष्टया तर्हि प्रतीहारपार्श्वमेहीहि सत्वरम् । उक्तस्तद्भूभिश्च तैः साकं स प्रतीहारमभ्यगात् ॥६३॥ तस्मै तथैव प्राशंसत्त्तुरीदर्शनं मृषा । तेनापि सस्कृत्य ततो राजात्तिकमनीयत ॥६४॥ राजाग्रेऽप्यविकत्थ्य सन्तथैव च तदब्रवीत् । द्यूतदान्तस्य किं नाम कितबस्य हि दुष्करम् ॥६५॥

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · पृष्ठ 535, कुल 876 में से · BharatKosha