कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 561, कुल 876 में से
संदर्भ में पढ़ें५१४ कथासरित्सागर तच्छ्रुत्वा दृढनिश्चयां विगणयञ्जातिस्मरां तां सुताम् नास्याश्चायमभीष्टमर्थघटने पश्यन्नुपायक्रमम्। देशे सत्र ततः प्रभृत्यनुदिनं प्रष्टुं नवागन्तुकान्। भूयो भूमिपतिः स नित्यपटहप्रोद्घोषणामादिशत् ॥२१२॥ ‘यो विप्रः क्षत्रियो वा ननु कनकपुरीं दृष्टवान्सोऽभिधत्तां तस्मै राजा किल स्वां वितरति तनयां यौवराज्येन साकम्’ । सर्वत्राघोष्यतैव पुनरपि पटहानन्तरं नाप दास्य श्च त्वेकः कोऽपि साक्षात्कृतकनकपुरीदर्शनो लभ्यते स्म॥२१३॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे चतुर्दारिकालम्बके प्रथमस्तरङ्गः।
द्वितीयस्तरङ्गः कनकपुरीदर्शनार्थं शक्तिदेवस्य प्रस्थानम् अत्रान्तरे द्विजयुवा शक्तिदेवः स दुर्मनाः। अचिन्तयदभिप्रतराजकन्यावमानितः ॥१॥ मयेह मिथ्याकनकपुरीदर्शनवादिना। विमानना परं प्राप्ता न त्वसौ राजकन्यका॥२॥ तदेतत्प्राप्तये तावद् भ्रमणीया मही मया। यावत्सा नगरी दृष्टा प्राणैरपि गतैर्मम॥३॥ तां हि दृष्ट्वा पुरीमस्य तत्पणोपार्जितां न चेत्। रुन्धेय राजतनयामहं किं जीवितेन तत् ॥४॥ एवं कृतप्रतिज्ञः सन् वर्धमानपुरात्ततः। दक्षिणां दिशमारभ्य स प्रतस्थे स ततो द्विजः ॥५॥ क्रमञ्च गच्छंश्च प्राप गोव्यं विन्ध्यमहाटवीम्। विवेश च निजां वाञ्छामिव तां गहनायताम् ॥६॥ तस्यां च मारुताधूतमुदुपाञ्चत्पल्लवैः। वीजयन्त्यामिवात्मानं तज्जमश्रकरोस्तरः ॥७॥ भूरिखोरपशभूतिदुःखान्दि दिवानिशम् । श्रोदन्यो तीव्रमद्वान्द्रिह्व्यमानमृपारवः ॥८॥