भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 569, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 569

५२२ कथासरित्सागर निर्याति च कृतस्वस्तिकार तं च सविस्मयम् । युवानं वीक्ष्य पप्रच्छ दाशः सत्यव्रतस्ततः ॥५३॥ कस्त्वं कथं कुतश्चैषा शफरोदरशामिता । वृथास्त्वयाप्ता कोऽयं ते वृत्तान्तोऽप्यन्तमद्भुतः ॥५४॥ तच्छ्रुत्वा शक्तिदेवस्तं दाशेन्द्रं प्रत्यभाषत । ब्राह्मणः शक्तिदेवाख्यो वर्धमानपुरावहम् ॥५५॥ अवश्यगम्या कनकपुरी च नगरी मया । अजानानश्च तां दूराद् भ्रान्तोऽस्मि सुचिरं भुवम् ॥५६॥ ततो दीर्घतपोवाक्यात्सम्भाव्य द्वीपगां च ताम् । तज्जन्मज दाशपतेरस्यैतद्द्दीपवासिनः ॥५७॥ पार्श्वं सत्यव्रतस्याहं गच्छन्वहनभङ्गतः । मग्नोऽम्बुधौ निगीर्णोऽस्मि मत्स्येन प्रापितोऽधुना ॥५८॥ इत्युक्तवन्तं च शक्तिदेवं सत्यव्रतोऽब्रवीत् । सत्यव्रतोऽहमेवेन्द्रद्वीपे सम्मदमव ते ॥५९॥ किन्तु दृष्टा बहुद्वीपद्रुत्वेनापि१ न सा मया । नगरी त्वदभिप्रेता द्वीपान्तपु श्रुता पुन ॥६०॥ इत्युक्त्वा शक्तिदेवं च विषण्णं वीक्ष्य तत्क्षणम् । पुनरभ्यागतप्रीत्या तं स सत्यव्रतोऽभ्यधात् ॥६१॥ ब्रह्मन् ! मा गा विषादं त्वमिहैवाद्य निशां वस । प्रातः कश्चिन्दुपायं तं विधास्यामीप्सितद्धये ॥६२॥ इत्याश्वास्य स तेनैव दाशेन प्रहितोऽथ । मुख्यमातिथ्यसत्कारं द्विजो विप्रमठं ययौ ॥६३॥ तत्र मठासिनस्तेन कृताहारो द्विजन्मना । विष्णुदत्ताभिधानेन सह चक्रे कथाक्रमम् ॥६४॥ तत्प्रसङ्गाच्च तेनैव पृष्टस्तस्मै शशंस तत् । निजं दशं कृतं कृत्स्नं वृत्तान्तं च शनैः सः ॥६५॥ तद्बद्धया परिरभ्यमं विष्णुदत्तः स तत्क्षणम् । बभाषे हर्षवाष्पाम्बुधर्मराजशरर्जरम् ॥६६॥ शिष्या मातृष्वसुपुत्रस्त्वंमवत्त्वद्गमञ्च मे। १ दृष्टवत्तेत्यर्थः ।