कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 57, कुल 876 में से
संदर्भ में पढ़ें२४ कथासरित्सागर किमपि तदवलोक्य तत्र चित्रं प्रमदवशान्न परं तषोपवर्षं । अपि विततमहोत्सवं समग्रं समजनि पाटलिपुत्रपौरलोकः ॥८२॥ राजापि स गिरिशसूनुवरप्रभाव- मालोक्य तस्य परितोषमुपेत्य नन्दः । वर्षस्य वेश्म वसुभिः स किरादरेण सत्कारमेव समपूरयदुन्नतधीः ॥८३॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके द्वितीयस्तरङ्गः ।
तृतीयस्तरङ्गः एवमुक्त्वा वररुचिं शृण्वत्येकाग्रमानसे । काणभूती वने तत्र पुनरेवेदमब्रवीत् ॥१॥ कदाचिदति कालस्य कृते स्वाध्यायकर्मणि । इति वर्षं उपाध्यायः पृष्ठोऽस्माभिः कृताह्निकः ॥२॥ इदमेवविधं कस्माद्भरं क्षेभतां गतम् । सरस्वत्याश्च लक्ष्म्याश्च तदुपाध्याय ! कथ्यताम् ॥३॥ तच्छ्रुत्वा सोऽब्रवीदस्माञ्छृणु चैतत्कथामिमाम् । तीर्थं कनखलं^१ नाम गङ्गाद्वार^२स्ति पावनम् ॥४॥ मत्र काञ्चनपातन जाह्नवी देवदन्तिना । उशीनरगिरिग्रन्थाद् भित्वा समवतारिता ॥५॥ दाक्षिणात्यो द्विजः कश्चित्तपस्यन्भार्यया सह । तत्रासीत्तस्य चान्वेव जायन्ते स्म त्रयः सुताः ॥६॥ कालेन स्वर्गते तस्मिन् समाये च च तत्सुताः । स्थानं राजगृहं^३ नाम जग्मुर्विद्याजनेच्छया ॥७॥
१ हरद्वारसमीपे कनखलं तीर्थ प्रसिद्धं यत्र दक्षप्रजापतिना यज्ञोऽनुष्ठित इति ख्यातम् । २ गङ्गाद्वारमिदानीं हरद्वारेति प्रसिद्धम् । ३ राजगृहं साम्प्रतं बिहारप्रान्ते 'राजगिर' नाम्ना प्रसिद्धं स्थानमस्ति ।