भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 571, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 571

५२४ कथासरित्सागर अहं च बाल्य एव प्राक्तस्माद्देशादिहागतः ॥६७॥ तदिहस्वास्व न चिरात् साधयिष्यसि चात्र ते । इष्टं द्वीपान्तरगच्छद्वणिक्कणपरम्परा ॥६८॥ इत्युक्त्वानयमावेशं विष्णुदत्तो यथोचितम् । तं शक्तिदेवं तत्कारमुपचारमथाचरत् ॥६९॥ शक्तिदेवोऽपि सम्प्राप्य विस्मृताध्वक्लमो मुदम् । विदधे वायुलाभो हि मराब्मुसनिर्मंरः ॥७०॥ अमन्यत च निजाभीष्टसिद्धिमप्यनवर्तिनीम् । अन्तरापाति हि श्रेयः कार्यसम्पत्तिसूचकम् ॥७१॥ ततो रात्रावनिद्रस्य शयनीयं निपेयुषः । अभिवाञ्छितसम्प्राप्तिगतचित्तस्य तस्य सः ॥७२॥ शक्तिदेवस्य पार्श्वस्थो विष्णुदत्तः समथनम् । विनोदपूर्वकं कुर्वन्कथां कथितवानिमाम् ॥७३॥ अशोकदत्तस्य कपालस्फोटराक्षसाधिपतेश्च कथा पुरामूत् सुमहाविप्रो गोविन्दस्वामिसंज्ञकः । महाप्रहारे कालिन्द्या उपकण्ठनिवेशिनि ॥७४॥ जायेते स्म च तस्य द्वौ सदृशौ गुणशालिनः । अशोकदत्तो विजयदत्तश्चेति सुतौ क्रमात् ॥७५॥ कालेन तत्र वसतां तेषामजनि दारुणम् । दुर्भिक्षं तत्र गोविन्दस्वामी भार्यामुवाच सः ॥७६॥ अयं दुर्भिक्षदोषेण देशस्तावद् विनाशितः । तन्न शक्नोम्यहं द्रष्टुं सुहृद्बान्धवदुर्गतिम् ॥७७॥ दीयतां च कियत् कस्य तस्मादन्नं यदस्ति नः । तद्गृह्या मित्रबन्धुभ्यां व्रजामो विषयादितः ॥७८॥ वाराणसीं च मासाय सकुडुम्बा धयामहे । इत्युक्तया सोऽनुमतो भार्ययाऽस्मदाशिजम् ॥७९॥ सदारसुतभृत्यश्च स देशात्प्रययौ ततः । उत्सहन्ते न हि । द्रष्टमुत्तमाः स्वजनापदम् ॥८०॥