कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 573, कुल 876 में से
संदर्भ में पढ़ेंगच्छंश्च मार्गे जटिलं भस्मपाण्डुं कपालिनम्। सार्धचन्द्रमिवेशानं महाव्रतिनमक्षत॥८१॥ उपेत्य ज्ञानिनं तं च नत्वा स्नेहेन पुत्रयोः। शुभाशुभं स पप्रच्छ सोऽप्य योगी जगाद तम्॥८२॥ पुत्रौ त भाविकल्याणौ किं स्वनेन कनीयसा। ब्रह्मन्विजयदत्तेन वियोगस्ते भविष्यति॥८३॥ ततोऽन्याशोकदत्तस्य द्वितीयस्य प्रभावतः। एतेन सह युष्माकं भूयो भावी समागमः॥८४॥ इत्युक्तस्तेन गोविन्दस्वामी स ज्ञानिना सदा। मुमुचुः साद्भुताश्चान्तस्तमामन्त्र्य ततो ययौ॥८५॥ प्राप्य वाराणस्रीं तां च तद्वाह्ये चण्डिकागृहे। न्नि तत्प्रातिषेन्नाम देवीपूजादिकर्मणा॥८६॥ भाया च तत्रैव बहिः सकुडुम्बस्तरास्तलम्। समावसद कार्पटिकः सोऽन्यदेशागतैः सह॥८७॥ रात्रौ च तत्र सुप्तेषु सर्वेष्वधिगताध्वसु। श्रान्तेष्वास्तीर्णपर्णादिपान्थशय्यानिपातिषु ॥८८॥ तदीयस्य विबुद्धस्य तस्याकस्मात्कनीयसः। सूनोर्विजयदत्तस्य महान् शीतज्वरोऽजनि॥८९॥ स तमं सहसा भावि बन्धुविश्लेषहेतुना। भयेनेव ज्वरेणाभूदूर्ध्वरोमा सबाष्पयुः॥९०॥ शीतातंश्च प्रबोध्यैव पितरं स्वमवाच तम्। बाधत तात तीव्रो मामिह शीतज्वरोऽधुना॥९१॥ तन्मे समिधमानीय शीतघ्नं ज्वलयानलम्। नान्यथा मम शास्तिः स्यान्नयय न च यामिनीम्॥९२॥ तच्छ्रुत्वा तं स गोविन्दस्वामी तद्वेदनाकुलः। तावत्कुतोऽधुना वह्निर्वत्सेति च समन्यथात्॥९३॥ नन्वयं निकटे तात पश्यत्यग्निर्ज्वलन्नितः। भूमिष्ठेऽत्रव तद्गत्वा किं नाङ्गं तापयाम्यहम्॥९४॥ तस्मात् सकम्पं हस्ते मां गृहीत्वा प्रापय द्रुतम्। इत्युक्तस्तेन पुत्रेण पुनर्विप्रोऽपि सोऽब्रवीत्॥९५॥