कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 579, कुल 876 में से
संदर्भ में पढ़ें५३२ कथासरित्सागर सोऽपि मल्लो भुजं हत्वा हस्तेनारभताहवम्। मल्लं चाशोकदत्तस्तु भुजं हत्वा ऽपातयत् ॥१२४॥ ततस्तत्र महामल्लनिपातोत्थितशब्द्यया। युद्धभूम्यापि सन्तुष्य साधुवाद इवोदितः ॥१२५॥ स राजाशोकदत्तं तं तुष्टो रत्नैःपूरयत्। चकार चात्मनः पार्श्ववर्तिनं दृष्टविक्रमम् ॥१२६॥ सोऽपि राज्ञः प्रियो भूत्वा दिनं प्राप परां श्रियम्। दधधि शूरविद्यस्य विक्षपक्षो विशाम्पतिः ॥१२७॥ सोऽथ जातु ययौ राजा चतुर्दश्यां बहिःपुरे। सुप्रतिष्ठापितं दूरे देवमर्चयितुं शिवम् ॥१२८॥ कृतार्चनस्ततो नक्तं श्मशानस्यान्तिमेन सः। आगच्छन्नशृणोदार्तां तन्मध्यादुद्गतां गिरम् ॥१२९॥ अह दण्डाधिपनेह मिथ्या बध्यानुकीर्तनात्। द्वेघेण विद्धः शूलायां तृतीय दिवस प्रभो ! ॥१३०॥ अद्यापि च न निर्यान्ति प्राणा म पापकर्मणः। तद्वद तृषितोऽस्त्यर्थमह दापय मे जलम् ॥१३१॥ तच्छ्रुत्वा कृपया राजा स पार्श्वस्थमुवाच तम्। अशोकदत्तमस्याम्भः प्रहिणोतु भवानिति ॥१३२॥ कोऽत्र रात्रौ प्रजह्वः सदगच्छाम्यहमात्मना। इत्युक्त्वाशोकदत्तः स गृहीत्वाम्भस्ततो ययौ ॥१३३॥ याते च स्वपुरीं राज्ञि स धीरो गहनान्तरम्। महत्तरण तमसा सर्वतोऽन्तरधिष्ठितम् ॥१३४॥ शिबावकीर्णपिशितप्रतप्त श्यामहावलि । क्वचिद् क्वचिच्चिताज्योतिर्र्दीप्रदीपप्रकाशितम् ॥१३५॥ रुसद्रुत्तालबेतालतालवाद्यं विवशं तम्। दमशानं कृष्णरजनीनिवासभवनोपमम् ॥१३६॥ केनाम्भो याचितं भूपावित्यपृच्छस्तत्र स ब्रुवन्। मया याचितमित्यवमशृणोत् बाचमेकतः ॥१३७॥ गत्वा तदनुसारण निकटस्थ चितामठम्। ददर्श तत्र शूलाग्रे विद्धं कञ्चिन्नरं पूयम् ॥१३८॥