कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 593, कुल 876 में से
संदर्भ में पढ़ें५४४ कथासरित्सागर अन्येद्युश्च स राजा तत् स्वकृते सुरसद्मनि। हेमाब्जं स्थापयामास रुद्रोप्यकलशोपरि ॥२२८॥ उभो कलशपद्मौ च शुशुभाते सितारुणौ। यशः प्रतापाविव तौ भूपालाशोकदत्तयोः ॥२२९॥ तादृशो च विलोक्यैतौ स हर्षोत्फुल्ललोचनः। राजा माहेश्वरीं भक्तिरसावेशदमाप तत् ॥२३०॥ अहो विभाति पद्मने युक्तेोऽयं कलशोऽमुना। भूतिशुभ्रः कपर्दीव जटाजूटेन बभ्रुना ॥२३१॥ अन्विष्येद्द्वितीयं चेदीदृशं कनकाम्बुजम्। अस्मापयिष्यतामस्मिन् द्वितीयं कलशेऽपि तत् ॥२३२॥ इति राजवचः श्रुत्वाशोकदत्तस्ततोऽब्रवीत्। आनेष्यामहम्मम्भोजं द्वितीयमपि देव ते ॥२३३॥ तच्छ्रुत्वा न ममायेन पङ्कजेन प्रयोजनम्। अलं ते साहसेनेति राजापि प्रत्युवाच तम् ॥२३४॥ दिवसध्वेषु यातेषु हेमाब्जहरणैषिणि। अशोकदत्ते सा भूयोऽप्यागात्कृष्णचतुर्दशी ॥२३५॥ तस्यां चास्य सुवर्णाब्जवाञ्छां बुद्ध्वा भयादिव। द्युसद्स्वर्णकमल यातेऽस्तशिखरं रवौ ॥२३६॥ सन्ध्यारुणा प्रपिशितग्रासगर्भाविब क्षणात्। तमोरक्षःसु धावत्सु घूमधूम्रेषु सर्वतः ॥२३७॥ स्फुरद्दीपावलीदन्तमालाभास्वरभीषणे । जृम्भमाणे महारौद्रे निशानक्तञ्चरीमुखे ॥२३८॥ प्रसुप्तराजपुत्रीकात्स्वैरं निर्गत्य मन्दिरात्। अशोकदत्तः स ययौ श्मशानं पुनरेव तत् ॥२३९॥ तत्र तस्मिन्वटतरोर्मूलं तां पुनरागताम्। ददर्श राक्षसीं स्वेधू विहितस्वागतादराम् ॥२४०॥ तया च सह भूयस्ताङ्गमत्तन्निकेतनम्। स युवा हिमवच्छृङ्गं मार्गोन्मुखवधूर्जनम् ॥२४१॥ कञ्चित्कालमथ दध्वा तत्र स्थित्वाप्रवीच्च ताम्। स्वम् देहि द्वितीयं म कुतश्चित् कनकाम्बुजम् ॥२४२॥