भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 599, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 599

५५४ कथासरित्सागर तदा विद्याधरगुरोर्विद्यां प्राप्य भविष्यथ। पुनर्विद्याधरो युक्तो शापमुक्तौ स्वबन्धुभिः॥२८६॥ एवं तैर्मुनिभिः शप्तौ जातावावामुभाविह। वियोगोऽत्र यथाभूत्तत्सर्वं विदितं च नः॥२८७॥ इदानीं पद्मदूतोश्च स्ववधूसिद्धिप्रभावतः। यक्षपतेः पुरं गत्वा प्राप्तोऽस्य चानुजो मया॥२८८॥ तत्रैव च गुरोः प्राप्य विद्यां प्रज्ञप्तिकोदिकात्। सद्यो विद्याधरीभूय यथ क्षिप्रमिहागता॥२८९॥ इत्युक्त्वा पितरौ च तौ प्रियतमां तां चारुमूर्जां भूपतेः। सद्यः शापतमोविमोक्षमुदितो विद्याविधेयैर्निजः॥ तैस्तैः सभ्यमभूद् विचित्रचरितः सोऽशोकदत्तस्तदा। यन्ते सद्यदि प्रबुद्धमनसोऽजायन्त विद्याधराः॥२९०॥ ततस्तमामन्त्र्य नृपं स साकं मातापितृभ्यां दयिताद्वयेन। उत्पत्य धन्यो निजचक्रवर्तिधाम द्युमार्गेण जयी जगाम॥२९१॥ राज्ञाश्लेष्य समाज्ञां प्राप्य च तस्मादशोकवेग इति। नाम स बिभ्रत् सोऽपि च तद्भ्राता विजयवेग इति॥२९२॥ विद्याधरवरतरुणौ स्वजनानुगतावुभौ निजनिवासम्। गोविन्दकूटसञ्ज्ञकमचलवरं भ्रातरौ ययतुः॥२९३॥ सोऽप्याश्चर्यवशः प्रतापकूटो वाराणसीभूपतिः स्वस्मिन् दैवकृते द्वितीयकलशन्यस्तैकहेमाम्बुजः। तद्धंसैरपरे सुवर्णकमलरम्यस्थितय्यम्बक- स्तात्सम्बन्धमहत्तया प्रमुदितो मेने कृतार्थं कुलम्॥२९४॥ एवं दिव्या कारणानावतीर्णा जायन्तेऽस्मिञ्जन्तवो जीवलोके। सत्त्वोत्साहो स्वोचितौ ते वभागा दुष्प्रापामप्यर्थसिद्धिं लभन्ते॥२९५॥ तत्सत्त्वसागर ! भवामपि कोऽपि जाने देवांश एव भविता च यथेष्टसिद्धिः। प्रायः क्रियासु महतामपि दुश्चरासु घोरसाहता कथयति प्रकृतेर्विशेषम्॥२९६॥ सापि त्वदीप्सिता ननु दिव्या राजारमजा कनकरेखा। सामान्यथा हि वाञ्छति कनकपुरीदर्शिनं वरं द्विपठिम्। २९७॥