भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 619, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 619

५९८ कथासरित्सागर सत्तीरे रत्नपर्याणं¹ ददर्शैकं च वाजिनम्। तत्रावतीर्यथ तत्तत्पार्श्वं कौतुकाश्रयो ॥८५॥ इयेष च समारोढुं शून्यं दृष्ट्वा स तेन च। अश्वेनाहत्य पादेन तस्यां वाप्यां निक्षिक्षपे ॥८६॥ तन्निमग्नः स च क्षिप्रं वर्धमानपुराभिजात्। उद्यानदीर्घिकामध्यादुन्ममज्ज ससम्भ्रमम् ॥८७॥ ददर्श जन्मभूमीं च सद्यो वापीजले स्थितम्। आत्मानं कुमुदैस्तुल्यं दीनं चन्द्रप्रभां विना ॥८८॥ वर्धमानं पुरं क्वेदं क्व सा वैद्याधरी पुरी। अहो किमेतदाश्चर्यमायाडम्बरजृम्भितम् ॥८९॥ कष्टं किमपि केनापि मन्दभाग्योऽस्मि वञ्चितः। यदि वा कोऽत्र जानाति कीदृशी भवितव्यता ॥९०॥ इत्यादि चिन्तयन्सोऽथ वापीमध्यात् समुत्थितः। सविस्मयः शक्तिदेवो ययौ पितृगृहं निजम् ॥९१॥ तत्रापदिष्टपटहभ्रमणं कृतकौतुकः। पित्राभिनन्दितस्तस्थौ सोत्सवे स्वजने सह ॥९२॥ द्वितीयेऽह्नि बहिर्गेहान्निर्गतश्चाशृणोत् पुनः। घोष्यमाणं सपटकं पुरे तस्मिन्निदं वचः ॥९३॥ विप्रक्षत्रियमध्यात्कनकपुरी येन तत्त्वतो दृष्टा। ब्रवीतु स तस्मै तनयां सयौवराज्यां ददाति नृपः ॥९४॥ तच्छ्रुत्वैव स गत्वा तान् पटहोद्घोषकान् कृती। मया दृष्टा पुरी सेति शक्तिदेवोऽब्रवीत्पुनः ॥९५॥ तस्तूर्णं नृपतेरग्रे स नीतोऽभून्नृपोऽपि तम्। प्राग्जन्मने परिज्ञाय पुनर्वितथवादिनम् ॥९६॥ मिथ्या बह्मि न मया दृष्टा सा नगरी यदि। तदिदानीं शरीरस्य निग्रहेण पणो मम ॥९७॥ अथ सा राजपुत्री मां पृच्छत्वित्यभ्यधत्त तत्। गत्वा चान्तःपुरे राजा तत्रैवानाययत् सुताम् ॥९८॥ १ रत्नजटितमश्वपृष्ठास्तरणम्।