भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 625, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 625

५७४ कथासरित्सागर इत्येतद् वणिजस्तस्माच्छक्तिदेवो निशम्य स। विरम्य च त्रियामां तामन्येद्युस्तमपोचत् ॥१३१॥ गन्तव्यमुत्स्थलद्वीप सार्थवाह! पुनर्मया। तत्कथं तत्र गच्छामि साम्प्रतं कथ्यतामिति ॥१३२॥ गन्तुं प्रवृत्तास्तत्राद्य मदीया व्यवहारिणः¹। तद्यानपात्रमारूह्य श्रयातु सह तैर्भवान् ॥१३३॥ इत्युक्तस्तेन वणिजा स तस्तद्व्यवहारिभिः। साकं तदुत्स्थलद्वीपं शक्तिदेवो ययौ ततः ॥१३४॥ यः स बन्धुर्महात्मा मे विष्णुदत्तोऽत्र तिष्ठति। प्राग्वत्तस्यैव निकटं वस्तुमिच्छामि तन्मठम् ॥१३५॥ इति सम्प्राप्य च द्वीप तंत्कालं च विचिन्त्य सः। विपणीमध्यमार्गेण गन्तुं प्रावर्तत द्विजः ॥१३६॥ तावच्च तत्र दैवात्तं दृष्ट्वा दाशपतेः सुताः। सत्यव्रतस्य तस्यारात् परिज्ञायैवमब्रुवन् ॥१३७॥ तातेन सार्क कनकपुरीं लिन्प्सुस्तिस्त्वया। अह्यप्रगास्त्वमेकश्च कथमत्रागतो भवान् ॥१३८॥ शक्तिदेवस्ततोऽवादीदम्बुराशौ स वः पिता। पतितोऽम्बुभिराकष्टवहनो वडवामुखे ॥१३९॥ तच्छ्रुत्वा दाशपुत्रास्ते क्रुद्धा भृत्यान्बभाषिरे। बध्नीतेनं दुरात्मानं हतोऽनेन स नः पिता ॥१४०॥ अन्यथा कथमेकस्मिन् सति प्रवहणे द्वयोः। वडवाग्नौ पतेदेको द्वितीयश्चोत्तरे ततः ॥१४१॥ तदेष चण्डिका देव्याः पुरस्तात् पितृघातकः। अस्माभिरुपहन्तव्यः श्वः प्रभाते पशूकृतः ॥१४२॥ इत्युक्त्वा दाशपुत्रास्ते भृत्यान्बवन्ध्वैव तं तदा। शक्तिदेवं ततो निन्युर्मयङ्कश्चण्डिकामृहम् ॥१४३॥ शवरूपबलितानेकजीवं प्रबिततोवरम्। कथदृष्टाबलीवन्स्तमाळ मृत्योरिवाननम् ॥१४४॥ १ व्यापारिणः। २ अपशुरपि पशूक्तः कृत इतिभावः।