भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 633, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 633

५८२ कथासरित्सागर सद्गत्वा गर्भमेतस्या विपाद्योर्ध्वमाहर। अनतिक्रमणीयं हि निजं सत्यवचस्तव ॥१९०॥ एवमुक्तस्तया शक्तिदेवः स्नेहकृपाकुलः। प्रतिज्ञापरतन्त्रश्च क्षणमासीदनुत्तरः ॥१९१॥ जातोद्वेगश्च निर्गत्य बिन्दुरेखान्तिकं ययौ। सापि खिन्नमुपायान्तं तं विलोक्यैवमब्रवीत् ॥१९२॥ आर्यपुत्र! विषण्णोऽसि किमद्य ननु वेद्म्यहम्। बिन्दुमत्य नियुक्तरत्वं गर्भस्योत्पाटने मम ॥१९३॥ तच्च तेऽवश्यकर्तव्यं कार्यं किञ्चिद्धि विद्यते। नृशंसता न मास्त्यत्र काचिन्मा घृणां कृपा ॥१९४॥ देवदत्तब्राह्मणस्य कथा तथाहि शृणु नामात्र देवदत्तकथामिमाम्। पुरामूद्धरिदत्ताख्यः कम्बुकाख्ये पुरे द्विजः ॥१९५॥ तस्य च श्रीमतः पुत्रः कृतविद्योऽपि शैशवे। देवदत्ताभिधानोऽभूद्द्यूतैकव्यसनी युवा ॥१९६॥ द्यूतहारितवस्त्रादिर्गन्तुं नालं पितुर्गृहम्। एकदा च विवेशैकः स शून्यं देवतागृहम् ॥१९७॥ तत्र चापश्यदेकाकी साधितानेक कार्मणम्। जपन्तं जालपादाख्यं महाव्रतिनमेककम् ॥१९८॥ चकार च शनैस्तस्य प्रणाममुपगम्य सः। तेनाप्यपास्तमौनेन स्वागतेनाभ्यनन्द्यत ॥१९९॥ स्थितः क्षणाच्च तेनैव पृष्टो वैधुर्यकारणम्। शशंसास्मै स्वविपदं व्यसनक्षीणवित्तताम् ॥२००॥ ततस्तं स जगादैवं देवदत्तं महाव्रती। नास्ति व्यसनिनां वत्स! भुवि पर्याप्तये धनम् ॥२०१॥ इच्छा च विपदं हर्तुं यदि ते कुरु मद्वचः। विद्याधरत्वं प्राप्तं यत् कृतः परिकरो मया ॥२०२॥ तत्साधय त्वमप्येतन्मया सह सुलक्षण! मच्छासनं तु पाल्यं तन्नश्यन्तु विपदस्तव ॥२०३॥ १ विविधकाम्यनानावशां तावकम् ।