भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 653, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 653

६ कथासरित्सागर राज्ञः कलिङ्गदत्तस्य कथा अत्रान्तरे कथासन्धौ यद्वृत्तं तन्निशम्यताम्। आसीत्तक्षशिला¹ नाम वितस्तापुलिने पुरी ॥११०॥ तदम्भसि बभौ यस्याः प्रतिमा सौधसन्ततेः। पातालनगरीबाधस्तच्छामालोकनागता ॥१११॥ तस्यां कलिङ्गदत्ताख्यो राजा परमकौगतः²। अभूत्तारावरस्फीतजिनभक्ताखिलप्रजः³ ॥११२॥ रराज सा पुरी यस्य चैत्यरत्नैर्निरन्तरे। मत्तुल्या नाम नास्तीति मङ्क्ष्वङ्गैरिबोदिते ॥११३॥ प्रजानां न परं चक्रे यः पितेवानुपालनम्। यावद्गुरुरिव ज्ञानमपि स्वयमुपादिशत् ॥११४॥ तथा च तस्यां कोऽप्यासीन्नगर्यां सौगतो⁴ वणिक। धनी वितस्तादत्ताख्यो भिक्षुपूजैकतत्परः ॥११५॥ रत्नदत्ताभिधानश्च तस्याभूत्तनयो युवा। स च तं पितरं शश्वत्पापं कृत्याजुगुप्सत ॥११६॥ पुत्र निन्दसि कस्मान्मामिति पित्रा च तेन सः। पृच्छ्यमानो वणिक्पुत्रः सामर्षयूयमभाषत ॥११७॥ तात त्यक्तत्रयीधर्मेस्त्वमधर्मं निषेवसे। यद् ब्राह्मणान् परित्यज्य श्रमणांश्चाप्सदर्चसि ॥११८॥ स्नानादियन्त्रणाहीना स्वच्छालाधनलोलुपाः। अपास्तसन्धिस्याशेपकेशकौपीमसुस्थिताः ॥११९॥ विहारास्पदलोभाय सर्वेऽप्यधमजातयः। यमाधमन्ति धि तेन सौगतेन मयेन ते ॥१२०॥


१ पश्चिमोत्तरसीमाप्रान्ते प्रसिद्धा तक्षशिला नगरी साम्प्रतं पाकिस्तानप्रदेशे वर्तते Taxila नाम्ना प्रसिद्धा। अस्या विषये परिशिष्टे विस्तरं विवक्षितम्। २ तक्षशिलायां कदाचित् बौद्धधर्मस्य जैनधर्मस्य च प्रचुरः प्रचार आसीदित्यैति- हासिकानां मतम् तत् परिशिष्टे द्रष्टव्यम्। ३ जिनधर्मानुयायीत्यर्थः, ४ त्रयी-वेदत्रयी तत्प्रतिपादितो वैदिकधर्मः।