भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 657, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 657

राजा तं च तथाभूतं वीक्ष्यापन्नमभाषत। किमीदृक्त्वं कृशीभूतं किं रुद्धं ते मयाशनम्॥३५॥ तच्छ्रुत्वा स वणिक्पुत्रो राजानं तमभाषत। आत्मापि विस्मृतो भीत्या मम का स्वशनं कथा॥३६॥ युष्मदादिष्टनिधनश्रवणात् प्रभृति प्रभो!। मृत्युमायान्तमायान्तमन्वहं चिन्तयाम्यहम्॥३७॥ इत्युक्तवन्तं तं राजा स वणिक्पुत्रमब्रवीत्। बोधितोऽसि मया वत्स युक्त्या प्राणभयं स्वतः॥३८॥ ईदृगेव हि सर्वस्य जन्तोर्मृत्युभयं भवेत्। तद्रक्षणोपकाराच्च धर्मः कोऽभ्यधिको वद॥३९॥ तदेतत्तव धर्माय मुमुक्षायै च दर्शितम्। मृत्युभीतो हि यतते नरो मोक्षाय बुद्धिमान्॥४०॥ असौ न गर्हणीयोऽयमेतद्धर्मा पिता त्वया। इति राजवचः श्रुत्वा प्रह्वोऽवादीद् वणिक्सुतः॥४१॥ धर्मोपदेशाद्देवेन कृती तावदहं कृतः। मोक्षायेच्छा प्रजाता मे तमप्युपदिश प्रभो!॥४२॥ तच्छ्रुत्वा तं वणिक्पुत्रं प्राप्ते तत्र पुरोत्सवे। तैलपूर्णं करे पात्रं दत्त्वा राजा जगाद सः॥४३॥ इदं पात्रं गृहीत्वा त्वमेहि भ्रान्त्वा पुरीमिमाम्। तैलबिन्दुनिपातश्च रक्षणीयस्त्वया सुत!॥४४॥ निपतिष्यति यद्येकस्तैलबिन्दुरितस्तव। सद्यो निपातिष्यन्ति त्वामेते पुरुषास्ततः॥४५॥ एवं विलोक्त्वा व्यसृजत् भ्रमाय वणिक्सुतम्। उत्खातखड्गान् पुरुषान् दत्त्वा पश्चात्स भूपतिः॥४६॥ वणिक्पुत्रोऽपि स भयाद्ग्रंस्तैस्तत्सबन्धुभिर्। पुरीं तामभितो भ्रान्त्वा दृष्ट्वाहागादृपान्तिकम्॥४७॥ नृपोऽप्यन्यसितानीतं दृष्ट्वा तमम्यधात्। कच्चित्पुरभ्रमेऽप्यद्य दृष्टोऽत्र भ्रमता त्वया॥४८॥ तच्छ्रुत्वा स वणिक्पुत्रः प्रोवाच रचिताञ्जलिः। यत्सत्यं न मया देव दृष्टं किञ्चिन्न च श्रुतम्॥४९॥