भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 659, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 659

६ ६ कथासरित्सागर अह ह्येकावधानेन तैलस्नेहपरिच्युतिम्। खड्गपातमयाद्राक्षंस्तदानीमभ्रमं पुरीम् ॥५०॥ एवं वणिक्सुतेनोक्ते स राजा निजगाद तम्। दृश्यतैरेकचित्तेन न त्वया किञ्चिदीक्षितम् ॥५१॥ तत्तेनैवावधानेन परानुध्यानमाचर। एकाग्रो हि बहिर्वृत्तिनिर्वृत्तस्तत्त्वमीक्षते ॥५२॥ दृष्टतत्त्वश्च न पुनः कर्मजालेन बध्यते। एष मोक्षोपदेशस्ते सक्षपात्कथितो मया ॥५३॥ इत्युक्त्वा प्रहितो राज्ञा पतित्वा तस्य पादयोः। कृतार्थः स वणिग्पुत्रो हृष्टः पितृगृहं ययौ ॥५४॥ एवं कलिङ्गदत्तस्य प्रजास्तस्यानुशासतः। तारादत्ताभिधानाऽभूद्राज्ञी राज्ञः पुरोषिता ॥५५॥ यथा स राजा शुशुभे रीतिमत्या सुवृत्तया। नानादृष्टान्तरसिको भार्यया सुकविर्यथा ॥५६॥ या प्रकाशगुणश्लाघ्या ज्योत्स्नेव शशलक्ष्मणः। तस्याममृतमस्याभूद्विबिम्बैरिव भूपतेः ॥५७॥ तया देव्या समं तत्र सुखिनस्तस्य तिष्ठतः। नृपस्य जग्मुर्दिवसा दाक्ष्येव दिवि वज्रिणः ॥५८॥ सुरभिदत्ताप्सरसः कथा अत्रान्तरे क्वचित्तस्मिन् कथासङ्गी क्षतत्रसः। कुतोऽपि हेतोस्त्रिदिवे वर्त्तते स्म महोत्सवः ॥५९॥ तत्राप्सरःसु सर्वासु नर्त्तितुं मिलितास्वपि। एका सुरभिदत्ताख्या नादृश्यत वराप्सराः ॥६०॥ प्रणिधानाऽथ शक्रस्तां ददर्श रहःस्थिताम्। विद्याधरेण केनापि सहितां नन्दनान्तरे ॥६१॥ सद्दृष्ट्वा जातकोपोऽन्त स वृत्रारिरचिन्तयत्। अहो एतौ दुराचारौ मदनान्धावुभावपि ॥६२॥ एका यदाचरत्येव विस्मृत्यात्मानं स्वतन्त्रवत्। करोत्यविनयं चान्यो देवभूमौ प्रविश्य यत् ॥६३॥ अथवास्य वराकस्य दोषो विद्याधरस्य कः। आकृष्टो हि वशीकृत्य रूपेणायमिहानया ॥६४॥