भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 677, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 677

६२२ कथासरित्सागर

तस्य प्रवीरपुत्रेच्छाकृताग्न्याराधनोद्भवः । अहमेष महाराज वेदविद्याविदः सुतः ॥१६४॥ तस्मिंश्च भार्यानुगते पितरि स्वर्गते शिशुः । अपीतविद्योप्यानाभ्यास्स्वभागं श्यक्तवानहम् ॥१६५॥ प्रवृत्तश्चाभवं द्यूतं शस्त्रविद्याञ्च सेवितुम् । कस्य नोच्छृङ्खलं बाल्यं गुरुशासनवर्जितम् ॥१६६॥ तेन क्रमेण चोत्तीर्णे दशवे जातदोर्मदः । अटवीमेकदा बाणानहं द्धोप्तुं गतोऽभवम् ॥१६७॥ तावत्सन पथा चैका नगर्या निर्गता वधूः । अगात्कर्णीरपारूढा जन्यैर्बहुभिरन्विता ॥१६८॥ अकस्माच्च तदैवात्र करी त्रोटितशृङ्खलः । कुतोऽप्यागत्य तामेव वधूमभ्यापतन्मदात् ॥१६९॥ तद्भयेन च सर्वेऽपि त्यक्त्वा तामनुयायिनः । तद्भर्त्रापि सह क्लीबाः पलाय्येत्तस्ततो गताः ॥१७०॥ तद्दृष्ट्वा सहसावाहं ससम्भ्रममचिन्तयम् । हा कथं कातरैरेभिस्त्यक्तैकेयं तपस्विनी ॥१७१॥ तदहं वारणादस्माद्रक्षाम्यशरणामिमाम् । आपन्नत्राणविकलैः किं प्राज्ञैः पौरुषेण वा ॥१७२॥ इत्यहं मुक्तनादस्तं गजेन्द्रं प्रति धावितः । गजोऽपि तां स्त्रियं हित्वा स मामेवाभ्यदुद्रुवत् ॥१७३॥ ततोऽहं भीतया नार्या वीक्ष्यमाणस्तया नवन् । पलायमानश्च गजं तं दूरमपकृष्टवान् ॥१७४॥ क्रमात्पत्रभरां भग्नां प्राप्य शाखां महातरोः । आत्मानं च समाच्छाद्य सङ्क्रमध्यमगामहम् ॥१७५॥ तत्राग्रे स्थापयित्वा तां शाखां तिर्यक्शुरोग्रवात् । पलायितोऽहं हस्ती च स तां शाखामचूर्णयत् ॥१७६॥ ततोऽहं योषितस्तस्याः समीपगमनं द्रुतम् । शरीरकुशलं चैतामपृच्छमिह भीषिताम् ॥१७७॥ सापि मां वीक्ष्य दुःखार्ता सहर्षा चावदत्तथा । किं मे कुशलमेतस्मै दत्ता कापुरुषाय या ॥१७८॥ [L31: ईदृशे सङ्कटे यो मां त्यक्त्वा क्वापि गतः प्रभो । एतत्तु कुशलं यत्त्वमक्षतः पुमरीक्षितः ॥१७९॥