कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 709, कुल 876 में से
संदर्भ में पढ़ें१५४ कथासरित्सागर
एको न रोपितो यावदुत्पन्नोऽस्य व्रणोऽपर। सत्यं प्रवादो यच्छिद्रेष्वनर्था यान्ति भूरिताम् ॥१८१॥ प्रभवन्ति यतो लोकाः प्रलयं यान्ति येन च। ससार वर्त्म विवृतं कः पिधातुं तदीश्वरः ॥१८२॥ इत्यालोच्य विरुद्धाथेसिद्धया मन्त्रनश्वयुया। स पिशाचस्ततो मूर्खं पलाय्यावर्शनं ययौ ॥१८३॥ एवं च बद्धमित्वा तं पिशाचं मोषितस्तया। दुहित्रा स द्विजस्तस्मै रोगोत्तीर्णो यथासुखम् ॥१८४॥ इत्य पिशाचास्तत्तुत्या बाला राजसुताश्च ये। ते सिद्धा अप्यनर्थाय सखि रक्ष्यास्तु बुद्धिभि ॥१८५॥ राजपुत्र्यः कुलीनास्तु नैतादृश्यः श्रुता क्वचित्। अतोऽन्यथा न भव्यं ते सखि मत्संगतं प्रति ॥१८६॥ एवं कलिङ्गसेनाया मुखाच्छ्रुत्वा यथाक्रमम्। सहासाचित्रमधुर सोर्प सोमप्रभा ययौ ॥१८७॥ इतो मे षष्टियोजन्यां गृहं याति च वासरः। चिरं स्थितास्मि सतन्वि यामीत्यैतामुवाच च ॥१८८॥ गतोऽस्तगिरिशेखरं व्रजति वासरोशे धर्न सखीं पुनरुपागमत्क्षणमिनी समापृच्छ्य ताम्। क्षण अनितविस्मया गगनमार्गमुत्पत्य सा जगाम वसतिं निजां प्रसभमत्र सोमप्रभा ॥१८९॥ विलोक्य च तदद्भुतं बहुवितर्कमत्यद्भुतम् प्रविद्य समचिन्तयत् किम कलिङ्गसेना च सा। न वेद्मि किमसावहो मम सखी हि सिद्धाङ्गना भवत्यथवाप्सराः किमथवापि विद्याधरी ॥१९०॥ दिव्या तावदियं मवरयवितथं व्योमाप्रमच्छासिणी दिव्या यान्ति च मानुषीभिरसमस्नेहानुसा सङ्गतिम्। भेजे किं नृपते पृथोस्तनयया सख्यं न सारून्धती तत्क्षीरण्या पृथुरानिगाय सुरभि स्वर्गाप्र किं भूतले ॥१९१॥ तत्क्षीरपानतो न किं पुनरसौ भ्रष्टोऽपि यातो दिवं सम्भूताश्च तत प्रभृत्यविवणा गायो न किं भूतले। तद्भाग्यास्मि शुभोदयादुपगता दिव्या मतीयं मम प्रातः स्वान्वयनामनी मुनिपुणं प्रक्ष्यामि तामागताम् ॥१९२॥