भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 711, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 711

६५६ कथासरित्सागर इत्यादि राजतनया हृदि चिन्तयन्ती तां यामिनीमनयद्यत्र कलिङ्गसेना । सोमप्रभा च निजवेश्मनि भूय एव तद्दर्शनोत्सुकमना रजनीं निनाय ॥१९३॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे । मदनमञ्चुकालम्बके द्वितीयस्तरङ्गः । तृतीयस्तरङ्गः कलिङ्गसेनायाः कथा (पूर्वतोऽनुवृत्ता) ततः सोमप्रभा प्रातस्तद्विनोदोपपादिनीम् । न्यस्तदारुमयानेकमायायन्त्रपुत्रिकाम् ॥१॥ करण्डिकां समादाय सा नभस्तलचारिणी । सख्याः कलिङ्गसेनाया निकटं पुनराययौ ॥२॥ कलिङ्गसेनाप्यालोक्य तांमानन्दाश्रुनिर्भरा । उत्थाय कण्ठे जग्राह पार्श्वसीनामुवाच च ॥३॥ त्वदीयमुखपूर्णेन्दुदर्शनेन विना सखि ! तमोमयी त्रियामाद्य शतयामेव मे गता ॥४॥ सज्जन्मान्तरसम्बन्धः कीदृशः स्यात्सख्या मम । यस्यायं परिणामोऽद्य त्वं देवि ! वेत्सि चेद् वद ॥५॥ तच्छ्रुत्वा राजपुत्रीं तामेवं सोमप्रमाब्रवीत् । ईदृशं मे नास्ति विज्ञानं नहि जातिं स्मराम्यहम् ॥६॥ न चात्र मनसोऽभिज्ञा बोधितं यदि जानते । तौ कृतं तादृशं पूर्वे परतस्त्वविदश्च त ॥७॥ एवमुक्तवतीं भूयः प्रेमचिह्नम्प्रणश्यलम् । कलिङ्गसेना पप्रच्छ विह्वले तां सुरारिपुम् ॥८॥ ब्रूहि मे सखि कस्येह देवजातेः पितुस्त्वया । जन्मनाऽलङ्कृतो वंशो मुक्तयेव सुवृत्तया ॥९॥ जगत्कर्णामृतं किं च तव नाम ससद्गुणे । करण्डिका किमर्थेयमस्यामस्ति च वस्तु किम् ॥११॥