कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 721, कुल 876 में से
संदर्भ में पढ़ें१६८ कथासरित्सागर कीर्त्तिसेना तुसा तूष्णीमासीदुद्वेगसस्मिता । देवसेनस्तु सोऽन्येद्यु प्रतस्थे वलभीं वणिक् ॥८३॥ सासस्तद्विरहक्लेशजुपस्तस्याः क्रमेण सा। तन्माता कीर्तिसेनाया दासी- पार्श्वान्न्यवारयत् ॥८४॥ कृत्वा च गृहचारिण्या स्वचेष्ट्या सह संविदम्। आनाय्याभ्यन्तरं गुप्तं तां विवस्त्रां चकार सा ॥८५॥ पापे रहसि मे पुत्रमित्युक्त्वा सकचग्रहम्। पादेवन्तैर्नखैश्चैतां पेट्या सममपाटयत् ॥८६॥ चिक्षेप चैनां भूगेहे सपिधाने दृढार्गले। तत्रत्येडम्युद्धताशेषपूर्वजातार्थसञ्चये ॥८७॥ न्यधाच्च तस्यास्तत्रान्तः प्रत्यहं सा विनात्यये। पापा तादृगवस्थाया भक्तस्यार्धशरावकम् ॥८८॥ व्यचिन्तयच्च दूरस्थे पत्यावेष मृता स्वयम्। इमां मृत्वाप्य यातेति वक्ष्यामि दिवसैरिति ॥८९॥ इत्य भूमिगृहे क्षिप्ता रद्ध्वा पापकता तया। सुखार्हा रुती तत्र कीर्त्तिसेना व्यचिन्तयत् ॥९ ०॥ आद्यः पतिः कुले जन्म सौभाग्यं साधुवृत्तता। तदप्यहो मम श्वश्रूप्रसादादीदृशी विपत् ॥९१॥ एतदर्थं च निन्दन्ति कन्यानां जन्म बान्धवाः । श्वशूननन्दृसत्रासमसौभाग्याविवृद्धितम् ॥९२॥ इति शोचन्त्यकस्मात्सा कीर्त्तिसेना खनित्रकम्। लेभेऽस्गाद् भूगृहाद्यात्रा मन शल्यमिवावरम् ॥९३॥ अयोमयेन तेनात्र सुरुङ्गां निचखान सा। तावद्यावतयोतस्ये दैवात्स्वाहासवेश्मनः ॥९४॥ ददर्श च प्रदीपेन प्राक्तेनेनाथ तद्गृहम्। अक्षीणं कृतालोका धर्मेणेव निजेन सा॥९५॥ आदायातश्च वस्त्राणि स्वं वर्णं च निशाक्षये। निर्गत्यैव ततो गुप्तं जगाम नगराद् बहिः ॥९६॥ एवंविधाया गन्तुं मे न युक्तं पितुर्वेश्मनि। किं वक्ष्ये तत्र लोकश्च प्रत्येव्यति कथं मम ॥९७॥