भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 741, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 741

१८६ कथासरित्सागर एषापि रूपरुचा तं श्रुत्वा सोमप्रमामुखात् । स्वयंवराय वत्सेशं राजपुत्र्यभिवाञ्छति ॥१५॥ तत्र यावद्विवाहोऽस्या न भवस्तावदन्तरम् । कृत्वा कामासहस्यथ रूपं वत्सेश्वरस्य तत् ॥१६॥ गत्वा गान्धर्वविधिना भार्या कुर्याद् भवानिमाम् । एवं कलिङ्गसेनासौ तव सत्येति सुन्दरी ॥१७॥ इत्यादिष्टः स राज्ञेन प्रणिपत्याथ तं ययौ । गृहं मन्मथवेगः स्वं काञ्चनगिरेस्तटम् ॥१८॥ अत्रान्तरे प्रतिदिनं गच्छन्त्या निजमन्दिरम् । प्रतिप्रभातमायान्त्या यन्त्रेण व्योमगामिना ॥१९॥ तया तक्षशिलापुर्यां सा सोमप्रभया सह । कलिङ्गसेना क्रीडन्ती तां जगादैकां रहः ॥२०॥ सखि वाच्यं न कस्यापि त्वया यत्ते ब्रवीम्यहम् । विवाहो मम सम्प्राप्त इति जाने यत शृणु ॥२१॥ इह मां याचितुं दूता प्रेषिता बहुभिर्नृपैः । ते च तातेन सङ्गत्य तथैव प्रेषिता इतः ॥२२॥ यस्तु प्रसनजिन्नाम श्रावस्त्यामस्ति भूपतिः । तदीयः केवलं दूतः सादरं तेन सत्कृतः ॥२३॥ मन्निमित्तं चान्बधाय्यैतत्तमन्वे मङ्गलं नृपः । स तावस्य वयाम्बायाः कुलीन इति सम्मतः ॥२४॥ स हि तत्र कुले जातो यत्राम्बाम्बालिकात्रिकाः । पितामह्याः कुरुणां च पाण्डवानां च जज्ञिरे ॥२५॥ तत्प्रसेनजिते तस्मै सखि दत्तास्मि साम्प्रतम् । तातेन राज्ञे श्रावस्त्यां नगर्यामिति निश्चयः ॥२६॥ एतत्कलिङ्गसेनायाः श्रुत्वा सोमप्रभा शुचा । मुञ्चन्तीबाष्प हारं सद्यो धारायुपाऽपतत् ॥२७॥ जगाद चैतां पृच्छन्तीं वयस्यामश्रुकारणम् । दृष्टनिक्षेपभूलोका सा मयासुरपुत्रिका ॥२८॥ वरो रूपं कुलं शीलं वित्तं चेति वरस्य यत् । मुख्यं सखि तदार्थं वयोवर्णादिकं तत ॥२९॥

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · पृष्ठ 741, कुल 876 में से · BharatKosha