कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 751, कुल 876 में से
संदर्भ में पढ़ेंअसिद्धानिष्टसिद्धेष्टकार्यतानीयविस्मितम् । सततस्तं तम राजानमेको मन्त्री तदाब्रवीत् ॥८९॥ विधिरेव हि जागर्त्ति मन्द्यानामर्थसिद्धिषु । असञ्चेतयमानानां सद्भूत्य स्वामिनामिव ॥९०॥ तथा च कथयाम्येतां राजन्नत्र कथां शृणु।
हरिशर्मणो ब्राह्मणस्य कथा
बभूव हरिशर्माख्यः कोऽपि ग्रामे क्वचिद्द्विजः ॥९२॥ स दरिद्रश्च मूर्खश्च भृत्यभावेन दुःखितः । पूर्वदुष्कृतभोगाय जातोऽतिबहुबालकः ॥९३॥ सकुडुम्बो भ्रमन् भिक्षां प्राप्यैकं नगरं क्रमात् । स्थितये स्थूलदत्तस्य गृहस्य स महाधनम् ॥९४॥ गवादिरक्षकान् पुत्रान् भार्यां कर्मकरीं निजाम् । तस्य कृत्वा गृहाभ्यर्णे प्रैष्यं कुर्वन्नुवास सः ॥९५॥ एकदा स्थूलदत्तस्य सुतापरिणयोत्सवः । तस्याभूदागतानेकजन्यायात्राजनाकुलः ॥९६॥ सदा च हरिशर्मानि तद्गृहे सकुतुम्बकः । आप्लुष्टमांसादिभोजनान्यो ववध सः ॥९७॥ तद्वेलां वीक्षमाणोऽप्य स्मृतः केनापि नात्र सः । ततोऽत्राहारनिर्विण्णो भार्यामियब्रवीन्निशि ॥९८॥ दारिद्र्यादिह मौर्ध्यान्च ममेत्थभगौरवम् । तदत्र कृत्रिम युक्त्या विज्ञानं प्रमुनग्म्यहम् ॥९९॥ येनास्य स्थूलदत्तस्य भवय गौरवास्पदम् । त्व प्राप्तेऽवसरे चास्मै शानिन मां निवेदय ॥१००॥ इत्युक्त्वा तां विधिस्स्यात्र धिया गुप्ते जने ह्य । स्थूलदत्तगृहात्तन्न जहे जामातृवाहनम् ॥१०१॥ दूरं प्रच्छन्नमेतेन स्थापितं प्रास्तरञ्च खम् । इतस्ततो विधिस्वत्तोऽप्यध्यन्वं जन्या न एभिरे ॥१०२॥ अथाम दूखविश्रस्त ह्यश्वोरगवेषिजम् । हरिशर्मवधूरस्य स्थूलदत्तमभाष सा ॥१०३॥ भर्त्ता मनीयो विज्ञानी ज्योतिर्विद्यादिशोधिवः । अन्य वा सम्भयरयेनं किमर्थ म न पृच्छयते ॥१०४॥