कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 767, कुल 876 में से
संदर्भ में पढ़ेंजरयाय वृतो राजा का वृणीतेऽपरा त्वमुम्। तदितः सखि शीघ्रं मां नय वत्सेश्वरं प्रति ॥४३॥ इति सोमप्रभां प्रोक्त्वा तत्क्षण सा तया सह। कलिङ्गसेना व्योम्नैव कौशाम्बी नगरीं ययौ ॥४४॥ तत्रोद्यानगत सा तं वत्सेशं सख्युदीरितम्। ददर्श दूरात् सोत्कण्ठा चकोरीवामृतत्विषम् ॥४५॥ सा तद्वुत्फुल्लया दृष्ट्या दृश्यस्तेन च पाणिना। प्रविष्णोऽथ पथानेन मामत्रेत्यब्रवीदिव ॥४६॥ सखि सङ्गमयाद्यैव वत्सराजेन मामिह। एनं विलोक्य हि स्थातुं न शक्ता क्षणमप्यहम् ॥४७॥ इति चोक्तवतीं सा या सखी सोमप्रभाब्रवीत्। अद्याशुभं मया किञ्चिन्निमित्तमुपलक्षितम् ॥४८॥ तदिदं दिवस तूष्णीमुद्यानेऽस्मिन्नलक्षिता। अधितिष्ठस्व मा कार्षी सखि दूरं गतागतम् ॥४९॥ प्रातरागत्य युक्तिं वा घटयिष्यामि सङ्गमे। अधुना गन्तुमिच्छामि भर्तुश्चित्तगृहे गृहम् ॥५०॥ इत्युक्त्वा तामवस्थाप्य ययौ सोमप्रभा ततः। वत्सराजोऽपि चोद्यानात् स्वमन्दिरमवाविशत ॥५१॥ ततः कलिङ्गसेना सा तत्रस्था स्वमहत्तरम्। यथा सर्वं स्वसन्देशं गत्वा वत्सेश्वरं प्रति ॥५२॥ प्राहिणोल्लाङ्घिनिपिच्छापि स्वसख्या शकुनज्ञया। स्वतन्त्रार्थमनवाञ्छो युवतीनां मनोरमः ॥५३॥ स च गत्वा प्रतीहारमुखेनावद्य तत्क्षणम्। महत्तर प्रविष्टोऽथ वत्सराजं व्यजिज्ञपत् ॥५४॥ राजन्नस्ति नृदस्तस्य रागस्तत्प्रणिधापने। सुता कलिङ्गसेनाख्या श्रुत्वा स्वां रूपसम्पदम् ॥५५॥ स्वयंवरार्थमिह ते सम्प्राप्ता त्यक्तबान्धवा। मायायन्त्रविमानेन सानुगा व्योमगामिना ॥५६॥ आनीता गन्धचारिण्या सख्या सोमप्रभाह्वया। मद्यामुद्यानलग्ना न लङ्घयेदथार्यया ॥५७॥ तया विज्ञापनायाः प्रेषितः स्वीकुरुष्व ताम्। युवयोरस्तु यागार्थं कौमुदीवन्यायिव ॥५८॥