कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 775, कुल 876 में से
संदर्भ में पढ़ें७१८ कथासरित्सागर तच्छ्रुत्वा सोऽब्रवीद्राजा ममाप्येवं हृदि स्थितम् । तां बिना हि मुहूर्तं मे स्थातुं न सहते मनः ॥३॥ इत्युक्त्वैव स तत्कालं प्रतीहारं पुरःस्थितम् । आदिश्यानाययामास गणकान् सरलाक्षयः ॥४॥ तेन पृष्टा महामन्त्रिपूर्वस्थापितसंविदः । ऊचुर्लग्नोऽनुकूलोऽस्ति राज्ञो मासेषु षट्स्वितः ॥५॥ तच्छ्रुत्वैव मृषा कोपं कृत्वा यौगन्धरायणः । अज्ञा इमे धिगित्युक्त्वा राजानं निपुणोऽब्रवीत् ॥६॥ योऽसौ ज्ञानीति देवेन पूजितो गणकः पुरा । स नागतोऽद्य तं पृष्ट्वा यथायुक्तं विधीयताम् ॥७॥ एतन्मन्त्रिवचः श्रुत्वा वत्सेशो गणकं तदा । तमप्यानाययामास दोलारूढेन चेतसा ॥८॥ सोऽप्यस्य कालहाराय स्थितसंवित्तथैव तम् । लग्नं पृष्टोऽब्रवीद्ध्यात्वा षण्मासान्ते व्यवस्थितम् ॥९॥ ततो राजानमद्विग्न इव यौगन्धरायणः । जगाद देव कर्तव्यं किमत्राविधीयतामिति ॥१०॥ राजाप्युक्तः सुरुग्नेयी स विमृश्य ततोऽभ्यधात् । कलिङ्गसेना प्रष्टव्या सा त्रिमाहेत्यवेक्ष्यताम् ॥११॥ सञ्छ्र्त्वा स तथेत्युक्त्वा गृहीत्वा गणकद्वयम् । पार्श्वं कलिङ्गसेनाया ययौ यौगन्धरायणः ॥१२॥ तया कृतादरो दृष्ट्वा तद्रूपं स व्यचिन्तयत् । प्राप्येमां व्यसनाद्राजा सर्वं राज्यं त्यजेदिति ॥१३॥ उवाच चैनामुद्वाहलग्नं ते गणकैः सह । निर्द्धातुमागतोऽस्म्येतैस्त्वं मद्य तन्निषेव्यताम् ॥१४॥ तच्छ्रुत्वा जन्मऋक्षं तस्याः परिजनोदितम् । गणकास्ते मृषा कृत्वा विचारं मन्त्रिसंविदा ॥१५॥ लग्नं तमेव तत्रापि मासषट्कान्तवर्त्तिनम् । नातीतः पुरोऽस्तीति वदन्तः पुनरभ्यधुः ॥१६॥