कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 79, कुल 876 में से
संदर्भ में पढ़ें४६ कथासरित्सागर तेन तच्च परिक्षातुं तत्रैवानायितो वणिक् । मदस्त किञ्चिदप्यस्या देयं नास्तीत्यभाषत ॥७३॥ उपकोशा ततोऽवादीत्सन्ति मे देव ! साक्षिणः । मञ्जूषायां गताः क्षिप्त्वा भर्त्ता मे गृहदेवताः ॥७४॥ स्ववाचा पुरतस्तासामनेनाङ्गीकृतं धनम् । तामानाय्यह मञ्जूषां पृच्छ्यन्तां देवतास्त्वया ॥७५॥ तच्छ्रुत्वा विस्मयाद्राजा तदानयनमादिशत् । ततः क्षणरसा मञ्जूषा प्रापिता बहुभिर्जनैः ॥७६॥ अत्रोपकोशा वक्ति स्म सत्यं वदत देवताः ! यद्युक्तं वणिजानेन ततो यात निजं गृहम् ॥७७॥ नो चेद्दहाम्यहं युष्मान्सदस्युद्घाटयामि वा । तच्छ्रुत्वा भीतभीतास्ते मञ्जूषास्था बभाषिरे ॥७८॥ सत्यं समक्ष मस्माकमनेनाङ्गीकृतं धनम् । ततो निरुत्तरः सर्वं वणिक्तत्प्रत्यपद्यत ॥७९॥ उपकोशामथाम्प्रच्छ्य राजा त्वतिकुतूहलात् । सदस्युद्घाटिता साभून्मञ्जूषा स्फोटितार्गला ॥८०॥ निष्कृष्टास्तत्प्रवि पुरुषास्तमःपिण्डा इव त्रयः । दृष्ट्वाञ्च प्रत्यभिज्ञाता मन्त्रिभिर्भ्रमुता तथा ॥८१॥ प्रहसत्स्वथ सर्वेषु किमेतदिति कौतुकात् । राज्ञा पृष्टा सती सर्वमुपकोशा शशंस तत् ॥८२॥ अचिन्त्यं धीसगुप्तानां चरितं कुलयोषिताम् । इति चाभिननन्दुस्तामुपकोशां सभासदः ॥८३॥ सवस्त्रं हृतसर्वस्वा परदारपिणोऽर्मिलाः । राज्ञा निर्वासिता बणादणील यस्य भूशय ॥८४॥ भगिनी मे त्वमित्युक्त्वा दत्वा प्रीत्या धनं बहु । उपकोशाऽपि भूपेन प्रेषिता गृहमगमत् ॥८५॥ वर्षोपवर्षौ तद्बुद्ध्वा साध्वीं तामभ्यनन्दताम् । सशब्दं विस्मयस्मेरं पुरं तत्राभवज्जनः ॥८६॥ अत्रान्तरे तुगायान्ते गत्वा तीव्रतरं तपः । आराधितो मया दत्तो वरदः पार्वतीपतिः ॥८७॥