कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 795, कुल 876 में से
संदर्भ में पढ़ें७३६ कथासरित्सागर यन्मया सहसा देव्याः प्रतिमा पुरतः कृता। विज्ञानं चात्र तादृङ्मे सम्यककिञ्चिन्न विद्यते ॥१३३॥ अन्यत्रैव च न व्याजः कर्तुं राजगृहे क्षमम्। ज्ञात्वा जातु हि कुर्वीरन्निग्रहं प्रभविष्णवः ॥१३४॥ एकस्तत्राभ्युपायः स्याद्यत्सङ्गे मेऽस्ति नापितः। ईदृग्विज्ञानकुशलः स चेत्कुर्यान्महोद्यमम् ॥१३५॥ इत्यालाख्यैव सा तस्य नापितस्यान्तिकं ययौ। तस्मै मनीषितं सर्वं तच्छासादर्शिसिद्धिदम् ॥१३६॥ ततः स नापितो वृद्धो धूर्तदश्चैवमचिन्तयत्। उपस्थितमिदं दिष्ट्या लाभस्थानं ममाधुना ॥१३७॥ तन्न वाच्या नवा राजवधू रक्ष्या तु सा यतः। दिव्यदृष्टिः पिता तस्य सर्वं प्रख्यापयिष्यति ॥१३८॥ विशिष्येतां तु नृपतेर्देवी सम्प्रति मुञ्च्यते। पुरहस्य-सहाये हि भर्ते भृत्यायते प्रभुः ॥१३९॥ सङ्क्षेप्ये काले राज्ञे च वाच्यमेतत्तथा मया। यथा स्यादुपजीव्यो मे राजा सा वणिककन्यका ॥१४०॥ एवं च नातिपापं स्याद् भवेद्दीर्घा च जीविका। इत्यालोच्य स तां प्राह नापितः कूटतापसीम् ॥१४१॥ अम्ब ! सर्वं करोम्येतत्किं तु मोगबलेन चेत्। एषा राज्ञो नवा भार्या हन्यते तन्न युज्यते ॥१४२॥ बद्धवा क्वापिद्विजा हि सर्पानस्मान् विनाशयेत्। स्त्रीहत्या पातकं च स्यात्तत्पिता च मुनिः शपेत् ॥१४३॥ तस्माद् बुद्धिबलेनैषा राज्ञो विश्लेष्यते परम्। येन देवी सुखं तिष्ठेद्वधप्राप्तिर्भवेन्न च ॥१४४॥ एतच्च मे कियत्किं हि न बुद्ध्या साधयाम्यहम्। प्रज्ञानं मामकीनं च शृणुतां वर्णयामि ते ॥१४५॥ अभून्मम पिता राज्ञो दुःशीलो वृद्धशर्मणः। अहं च दामस्तम्येहं राजः स्वापितकर्मकृत् ॥१४६॥ स कदाचिदिहं भ्राम्यन्भार्यामागन् मामकीम्। तस्यां तस्य गुरुपापां तस्यां च मनो ययौ ॥१४७॥