भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 797, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 797

७३८ कथासरित्सागर नापितस्त्रीति सावोधि पृष्ट्वा परिजनं स ताम्। किं नापितः करोतीति प्रविश्यैव स मे गृहम्॥१४८॥ उपभुज्यैव तां स्वेच्छं मद्भार्यां क्ष्नुपो ययौ। अहं च तदहर्देवाद् गृहादासं बहिः क्वचित्॥१४९॥ अन्येद्युश्च प्रविष्टेन दृष्टा सान्यादृशी मया। पृष्टा भार्या यथावृत्तं साभिमानेव मेऽभ्यधात्॥१५०॥ तत्क्रमेणैव तां भार्यामशक्तस्य निषेधने। नित्यमेवोपभुञ्जानः स ममोत्सम्प्रवाक्षुपः॥१५१॥ कुतो गम्यमगम्यं वा कुशीलोन्मादिनः प्रभोः। वातोद्धतस्य दावान्नेः किं तृणं किं च काननम्॥१५२॥ ततो यावद्गतिर्मेऽस्ति न काचिन्निवारणे। तावत्स्वल्पाशनक्षामो मान्द्यव्याजमशिश्रियम्॥१५३॥ तावद्युश्च गतोऽभूवं राजस्तस्याहमन्तिकम्। स्वव्यापारोपसेवार्थं निश्वसन् क्षुधपाम्बरः॥१५४॥ तत्र मन्दमिवालोक्य साभिप्रायं स मां नृपः। पप्रच्छ रे किमीदृक्त्वं सञ्जातं कथ्यतामिति॥१५५॥ निर्बन्धपृष्टस्तं चाहं विजने याचिताभयः। प्रत्यवोचं नृपं देव भार्यास्ति मम डाकिनी॥१५६॥ सा च सुप्तस्य मेऽन्त्राणि गुदेनाकृष्य पूषति। तथैव चान्तः क्षिपति तेनाहं क्षामतां गतः॥१५७॥ पोषणाय च मे नित्यं बृंहणं भोजनं कुरु। इत्युक्तः स मया राजा जाताशङ्को व्यचिन्तयत्॥१५८॥ किं सत्यं डाकिनी सा स्यात्तेनाहं किं हृतस्तया। किञ्चिवाहारपुष्टस्य चूषेवन्त्रं ममापि सा॥१५९॥ तदद्य तामहं भुक्त्वा जिज्ञासिष्ये स्वयं निशि। इति सञ्चिन्त्य राजा मे सोऽन्नाहारमवापयत्॥१६०॥ ततो गत्वा गृहं तस्या भार्यायाः सन्निधावहम्। वधूष्यमुच्चैं पृष्टश्च तया तामेवमब्रवम्॥१६१॥ प्रिये न वाच्यं कस्यापि त्वया गुह्यं ब्रवीमि ते। अस्य राज्ञो गुदे जाता दन्ता व्याधिसक्ष्मिमा॥१६२॥

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · पृष्ठ 797, कुल 876 में से · BharatKosha