भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 81, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 81

५० कथासरित्सागर प्रविश्य स्वस्तिकारं च विधाय गुरुदक्षिणाम्। योगनन्दा मया तत्र हेमकोटि स याचितः ॥१०३॥ ततः स शकटालस्य सत्यनन्दस्य मन्त्रिणम् । सुवर्णकोटिमतरं दापयेति समादिशत् ॥१०४॥ मृतस्य जीवितं दृष्ट्वा सद्यश्च प्राप्तिमर्थिनः । स तत्त्वं ज्ञातवान्मन्त्री किमज्ञेयं हि धीमताम् ॥१०५॥ देव ! दीयत इत्युक्त्वा स च मन्त्रीत्यचिन्तयत् । नन्दस्य तनयो बालो राज्यं च बहुशत्रुमत् ॥१ ०६॥ तत्सम्प्रत्येव रक्षामि तस्य देहमपीदृशम् । निश्चित्यैतत्स वत्कारं शवात्सर्वानदाहयत् ॥१०७॥ चारैरन्विष्य तन्मध्यं लब्ध्वा देवगृहातत । व्याडिं विधूय तद्गेहमिन्द्रदत्तकलेवरम् ॥१०८॥ अत्रान्तरे च राजानं हेमकोटिसमर्पणे । त्वरमाणमथाह स्म शकटालो विचारयन् ॥१०९॥ उत्सवाक्षिप्तचित्तोऽयं सर्वः परिजनः स्थितः । क्षणं प्रतीक्षतामयं विप्रो यावद्ददाम्यहम् ॥११०॥ अथैत्य योगनन्दस्य व्याडिनाक्रन्दितं पुरः । अहहाऽस्मत्सुहृत्क्रान्तजीवो योगस्थितो द्विजः ॥१११॥ प्रताम्यताव द्वयं दग्धाद्गहस्ततोदय । तच्छ्रुत्वा योगनन्दस्य तापश्चिन्ताभवन्महान् ॥११२॥ वह दाहात्स्थिरे तस्मिञ्जात निर्गत्य मे दृढौ । सुवर्णकोटिं स ततः शकटाले महामतिः ॥११३॥ योगनन्दोऽथ विजनं सङ्केतो व्याडिमब्रवीत् । मूढीभूतोऽस्मि विप्रोऽपि कि धिया स्थिरयापि मे ॥११४॥ तच्छ्रुत्वादत्ततस्य तं व्याडि कालोचितमभाषत । ज्ञातोऽसि शकटालेन तदेनं चिन्तयाधुना ॥११५॥ महामन्त्री ह्ययं स्वञ्चन्मन्त्रियत्तो विनाश्यत् । पूर्वानन्दसुतं कुर्याच्चन्द्रगुप्तं हि भूमिपम् ॥११६॥ तस्माद् वररुचिं मन्त्रिसुमुख्यत्वं कुरु यत्नतः । एतद्बुद्ध्या मवद्राज्यं स्थिरं दिष्यानुभावया ॥११७॥