कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 831, कुल 876 में से
संदर्भ में पढ़ेंततो निशीथे संसुप्ते जने वत्सेश्वरो ययौ। गृहं कलिङ्गसेनायाः स च यौगन्धरायणः ॥१९३॥ अदृष्टश्च प्रविष्टोऽत्र तस्या निद्राजुषोऽन्तिके। सुप्तं मदनवेगं तं स्वरूपस्थं ददर्श सः ॥१९४॥ हन्तुमिच्छति यावच्च स स साहसिको नृपः। तावत्स विद्यया विद्याधरोऽभूत्प्रतिबोधितः ॥१९५॥ प्रबुद्धश्च स निर्गत्य झगित्युदपतन्नभः। क्षणात्कलिङ्गसेनाऽपि सा प्रबुद्धाभवत्ततः ॥१९६॥ शून्यं शयनमालोक्य जगाद च कथं हि माम्। पूर्वं प्रबुध्य वत्सेशः सुप्तां मुक्त्वाव गच्छति ॥१९७॥ तदाकर्ण्य स वत्सेशमाह यौगन्धरायणः। एषा विश्वसितानेन शृणु त्वद्रूपधारिणा ॥१९८॥ सैष योगबलाज्ज्ञात्वा साक्षात्ते दर्शितो मया। किं तु दिव्यप्रभावत्वादसौ हन्तुं न शक्यते ॥१९९॥ इत्युक्त्वा स च राजा च सह तामुपजग्मतुः। कलिङ्गसेना साप्यात्तौ दृष्ट्वा तस्थौ कृतादरा ॥२००॥ अद्युनेव क्व गत्वा त्वं राजन् प्राप्तः समन्त्रिकः। इति ब्रुवाणामवदत्तां स यौगन्धरायणः ॥२०१॥ कलिङ्गसेने ! केनापि मायावत्सेशरूपिणी। संमोह्य परिणीतासि न त्वं मत्स्वामिनाधुना ॥२०२॥ तच्छ्रुत्वा सातिसम्भ्रान्ता विद्धेव हृदि पत्रिणा। कलिङ्गसेना नरपं जगादोदश्रुलोचना ॥२०३॥ गान्धर्वविधिनाहं ते परिणीतापि विस्मृता। किं स्विद्राजन् यथापूर्वं दुष्पन्तस्य शकुन्तला ॥२०४॥ इत्युक्तः स तया राजा तामुवाचामलाननः। सत्यं न परिणीतासि मयाद्यैवागतो ह्यहम् ॥२०५॥ इत्युक्तवन्तं नरपं मन्त्री यौगन्धरायणः। एहीत्युक्त्वा ततः स्वैरमनैषीद्राजमन्दिरम् ॥२०६॥