भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 851, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 851

इत्याज्ञाप्तेषु पुत्रस्य साचिव्ये तेषु भूभृता। गगनादुदभूद् वाणी पुष्पवृष्टिपुरःसरा ॥११७॥ सर्वार्थसाधका एते भविष्यन्त्यस्य मन्त्रिणः। शरीरावयवनिर्भिन्नोऽस्य गोमुखस्तु भविष्यति ॥११८॥ इत्युक्तो दिव्यया वाचा हृष्टो वत्सेश्वरश्च सः। सर्वान्सम्मानयामास वस्त्रैराभरणैश्च तान् ॥११९॥ अनुजीविषु यत्किञ्चन वसु वर्षति राजनि। दरिद्रशब्दस्यैकस्य नासीत्तत्रार्थसङ्गतिः ॥१२०॥ पवनोल्लासिताक्षिप्तपताकापटपङ्क्तिभिः । आहूतेरिव सापूरि नर्तकीचारणैः पुरी ॥१२१॥ आगाद् वैद्याधरी साक्षाल्लक्ष्मीस्तस्यैव भाविनी। कलिङ्गसेना जामातुरुत्सवेऽत्र भविष्यति ॥१२२॥ ततो वासवदत्ता च सा च पद्मावती तथा। हर्षेण ननृतुस्तिस्रो मिलिता इव शक्तयः ॥१२३॥ मारुतान्दोलितलताः प्रनृत्यन्निव सर्वतः। उद्यानतरवोऽप्यत्र चेतनेषु कथैव का ॥१२४॥ ततः कृताभिषेकः सन्नारुह्य जयकुञ्जरम्। नरवाहनदत्तः स युवराजो विनिर्ययौ ॥१२५॥ अवाकीर्यत धोत्क्षिप्तैर्नेत्रैर्ह्रसितारुणैः। पौरस्त्रीभिः स नीलाम्बुजाजपद्माब्जसिप्रमैः ॥१२६॥ दृष्ट्वा च तत्पुरीपूज्यदेवता बन्दिमागधैः। स्तूयमानः ससचिवः स विवेश स्वमन्दिरम् ॥१२७॥ तत्र दिव्यानि भोग्यानि तथा पानान्युपाहरत्। कलिङ्गसेना तस्यादौ स्वविभूत्यधिकानि सा ॥१२८॥ ददौ तस्मै सुवस्त्राणि दिव्यान्‍याभरणानि च। समन्त्रिसचिभृत्याय जामातृस्नेहकातरा ॥१२९॥ एवं महोत्सवेनासावमृतास्वादसुन्दरः। एषां वत्सेश्वरादीनां सर्वेषां वासरो ययौ ॥१३०॥ ततो निशायां प्राप्तायां सुतोद्वाहविधायिनी। कलिङ्गसेना सम्मन्त्र्य तां सा सोमप्रभां सखीम् ॥१३१॥

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · पृष्ठ 851, कुल 876 में से · BharatKosha