कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 863, कुल 876 में से
संदर्भ में पढ़ेंअज्ञस्तु कामलोभान्धो यथा मार्गप्रदर्शिभिः। नीत्वा श्वभ्रेषु निक्षिप्य मुष्यते धूर्तभेटकैः ॥२०२॥ नैवावकाशं लभते राज्ञस्तस्यान्तिके परः। धूर्तेर्निवद्धवाटस्य घालेरिव कृपीवरुः ॥२०३॥ अन्तर्भूय रहस्येषु तैर्वशीक्रियते हि सः। तत्र धीरविशेषज्ञात् बिभ्रा तस्मात् पलायते ॥२०४॥ तस्माज्जितात्मा राजा स्याद्युक्तदण्डो विशेषवित्। प्रजानुरागादेव हि स भवेद् भाजनं श्रियः ॥२०५॥
शूरसेननृपतेः तन्मन्त्रिणाम्च कथा पूर्वं च शूरसेनाख्यो मृत्तकप्रत्ययो नृपः। सचिवैः पेटकं कृत्वा भुज्यते स्म वशीकृतः ॥२०६॥ यस्तस्य सेवको राज्ञस्तस्मै तन्मन्त्रिणोऽत्र ते। दातुं नैच्छंस्तृणमपि दित्सत्यपि च भूपतौ ॥२०७॥ तेषां तु सेवको योऽत्र बभूवस्तस्मै स्वयं च ते। ते च विज्ञप्य राजानमनर्हायाप्यदापयन् ॥२०८॥ तद्दृष्ट्वा स नृपः बुद्ध्या शनैस्तद्धूर्तपेटकम्। अन्योन्यं प्रज्ञया युक्त्या सचिवास्तानभेदयत् ॥२०९॥ भिन्नेषु तेषु नष्टेषु मिथः पैशुन्यकारिषु। सम्यक्शशास राज्यं तत्स राजाऽथैरवञ्चितः ॥२१०॥ हरिसिंहश्च राजामूत्सामान्यो नीतितत्त्ववित्। कृतभक्त्युपसामात्यः सदुर्गः सार्थसञ्चयः ॥२११॥ अनुरक्ताः प्रजाः कृत्वा चेष्टते स्म यथा तथा। चक्रवर्त्यभियुक्तोऽपि न जगाम पराभवम् ॥२१२॥ एष विचार्यचिन्ता च सारं राज्येऽधिकं नु किम्। इत्याद्युक्त्वा यथास्वं ते विरेमुर्गोमुखादयः ॥२१३॥ नरवाहनदत्तश्च तेषां श्रद्धाय तद्वचः। चिन्त्ये पुरुषारम्भेऽप्यचिन्त्यं दैवमभ्यधात् ॥२१४॥
१ आसन्नवृक्षमुर्गुरारभ्य इत्यभिधीयते। —कामन्दके।