भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 103, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 103

८२ कथासरित्सागर सोऽपि तद्रूपलावण्यविनीताहृतचेतनः। तामभ्यनन्ददारामान्नप्रकाश्यैव भूपतिः॥३०॥ ततो मदनमाला सा स्नानपुष्पानुलेपनैः। वस्त्रैराभरणैर्धूपैर्महार्हैरसममानयत् ॥३१॥ दत्त्वा दिवसवृत्तिं च तेषां तदनुयायिनाम्। आहारैस्तं ससचिवं नानारूपैरपाययत्॥३२॥ निनाय च समं तेन दिनं पानादिलीलया। आत्मानं भावयतस्तं सा दर्शनावशीकृता॥३३॥ रात्रौ चाराध्यमानोऽप्यच्छन्नोऽप्यहरहस्तया। स तस्यै विक्रमादित्यश्छत्रवत्युचितं क्रमम् ॥३४॥ याचकेभ्यो ददौ नित्यं वित्तं यावच्च यच्च सः। दृष्ट्वा मदनमाला सा तत्तस्मै स्वमुपानयत्॥३५॥ क्षनोपभुज्यमानं च सा शरीरं धनं सथा। मेन कृतार्थमम्यस्मिन्नुत्पर्ये च पराङ्मुखी॥३६॥ ततश्चण्डा ऽपि तत्रत्यमनुरक्तं नराधिपम्। आयान्तं नरसिंहं तं वारयामास युक्तिभिः॥३७॥ एवं तया सेव्यमानः कदाचिन्मन्त्रिणं रहः। राजा सहचरं सोऽत्र तं बुद्धिवरमभ्यधात्॥३८॥ अर्थार्थिनी न कामऽपि वेश्या रज्यति तं विना। तामां लोभो हि विधिना वत्सो निर्माय याचकान् ॥३९॥ इयं मदनमाला तु भुज्यमाने धने मया। न विरज्यत्यतिस्नेहान्मयि प्रत्युत तुष्यति॥४०॥ तदस्याः संप्रति कश्च करोमि प्रत्युपक्रियाम्। येन कामं प्रतिज्ञापि क्ष्मणं मम सत्स्यति॥४१॥ तच्छ्रुत्वा स ब्रवीति स्म मन्त्री बुद्धिवरो नृपम्। यद्येवं तद्भवार्णे यानि रत्नान्युपाहरत्॥४२॥ प्रपञ्चबुद्धिमिदंस्त स्तेभ्योऽर्घ्यं देहि वाञ्छितम्। इत्युक्तो मन्त्रिणा तेन राजा तं प्रत्यभाषत॥४३॥ दत्तं ममपरेरपि सैनांन्या किञ्चित्कृतं भवेत्। एतद्दान्तान्मदिमण्डं हि स्वमन्यत्र निष्कृतिः॥४४॥

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · पृष्ठ 103, कुल 1079 में से · BharatKosha