कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 1044, कुल 1079 में से
संदर्भ में पढ़ें१८४ कथासरित्सागर शृणुष्वान्यां कथां चमां धूर्त्तस्यालीकमन्त्रिणः। आसीत् पृथ्बीपतिर्नाम नगरे दक्षिणापथे ॥११०॥ तद्राष्ट्रे कोऽप्यभूद्धूर्त्तः परवञ्चनजीविकः। स एकदा महच्छेत्वावसन्तुष्टो व्यचिन्तयत् ॥१११॥ धूर्त्तत्वेनेदृशा किं मे यथाहारादिमात्रकम्। प्राप्यते महती येन श्रीस्तादृङ् न करोमि किम् ॥११२॥ इत्यालोच्य वणिग्वेषमप्युदारं विधाय सः। उपासत्प्रतीहारं गत्वा द्वारं महीपते ॥११३॥ तमुक्त्वा प्रविश्यान्तं प्राभृतं चोपनीय सः। एकान्तं मेऽस्ति विज्ञप्तिरिति व्यज्ञापयन्नृपम् ॥११४॥ राज्ञापि वेषशान्तेन प्राभृतावर्जितेन च। तथेति रचिताैकान्तस्तमथ स व्यजिज्ञपत् ॥११५॥ दिनं दिने मया साकमास्थाने सर्वसन्निधौ। मूर्तेकान्ते कथालापं क्षणमेकं कुरु प्रभो ॥११६॥ तावताहं प्रतिदिनं दीनारशतपञ्चकम्। ददाम्युपायनं देवस्यार्थये न तु किञ्चन ॥११७॥ तच्छ्रुत्वाचिन्तयद्राजा को दोषः किमयं मम। गृहीत्वा याति दीनारान् ददाति प्रत्युतान्वहम् ॥११८॥ महता वणिजा सार्धं कथालापेन का त्रपा। इति स प्रतिपद्यैतद्राजा तस्य तथाकरोत् ॥११९॥ सोऽपि तस्मै ददौ राज्ञे दीनारांस्ता यथोदितान्। लोकस्तं च महामन्त्रिपदं प्राप्तममन्यत ॥१२ ॥ एकस्मिंश्च दिने धूर्त्तो मुहुः पश्यन्नियोगिनः। साकूतं मुखमस्य चक्रे राज्ञा समं कथाम् ॥१२१॥ निर्गतश्च वहिस्तेन मुखालोकनकारणम्। दृष्ट्याधिकारिणा पृष्टः स स्मेरं च मृषावदत् ॥१२२॥ वेद्मो न लुब्धितोऽनेनेत्येष ते कुपितो नृपः। मयात्वस्ते मुखं दृष्टं शमयिष्याम्यहं च तम् ॥१२३॥ इत्युक्तस्तेन सोऽलीकमन्त्रिणा समयो गृहम्। मागत्याभिकृतं स्वर्णसहस्रं तस्य दत्तवान् ॥१२४॥