भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 1050, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 1050

९९ कथासरित्सागर एकदा चाययौ तस्या राजपुत्र्यास्तमाश्रमम्। प्रव्राजिकैका भ्राम्यन्ती कौमारब्रह्मचारिणी ॥१५५॥ स तयाभ्यर्चिता हेमप्रभया स्वकथान्तरे। प्रव्रज्याकारणं पृष्टा बालप्रव्रजिकाब्रवीत् ॥१५६॥ संवाहयन्ती चरणावहं क्वापि सती पितुः। सीदत्करयुगाभूवं निद्राकुञ्चितलोचना ॥१५७॥ किं निद्रासीति पादेन ततः पित्राहमाहता। तन्मन्युना प्रव्रजिता निर्गत्यैवास्मि तद्गृहात् ॥१५८॥ इति प्रव्राजिकामुक्तवतीं हेमप्रभाय सा। समानधीस्सुप्रीता तां वनवाससखीं व्यधात् ॥१५९॥ एकदा तामवोचत् सा प्रातः प्रव्राजिकां सखीम्। सखि स्वप्नेऽद्य जानेऽहमुत्तीर्णा विपुलां नदीम् ॥१६०॥ आरूढाऽस्मि ततः श्वेतगजं तदनु पर्वतम्। तत्राग्रे मे मया दृष्टो भगवानम्बिकापतिः ॥१६१॥ तदग्रे प्राप्य वीणां च गायन्त्यहमवादयम्। ततोऽद्राक्षं च पुरुषं दिव्याकारमुपागतम् ॥१६२॥ तं दृष्ट्वा च त्वया साकमहमुत्पतिता नभः। इत्यदृष्ट्वा प्रबुद्धास्मि व्यतिक्रान्ता च यामिनी ॥१६३॥ एतच्छ्रुत्वा तां हेमप्रभामाह स्म सा सखी। शापावतीर्णा कापि त्वं दिव्या कस्यापि निश्चितम् ॥१६४॥ प्रत्यासन्नं च शापान्तं तव स्वप्नो वदत्यसौ। ध्रुवत्यमभ्यनन्दत् सा राजपुत्री सखीवचः ॥१६५॥ ततो भूयिष्ठमुदिते जगद्दीप दिवाकरे। आययौ तुरगारूढो राजपुत्रोऽत्र कश्चन ॥१६६॥ स तां हेमप्रभां दृष्ट्वा तापसीवेषधारिणीम्। जातभ्रांतिरुपगत्य ववन्दे मुक्तवाहनः ॥१६७॥ सापि तं रचितातिथ्या कृतासनपरिग्रहम्। मन्वानप्रणयापृच्छन् महात्मन्को भवानिति ॥१६८॥ राजपुत्राय सोऽवदन्महाभाग महीपतिः। प्रद्युम्नस्य व्यमनि शुभनामानुकीर्तन ॥१६९॥