कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 1058, कुल 1079 में से
संदर्भ में पढ़ेंवेला नामैकादशो लम्बक
३८ गुरुगिरीन्द्रजाप्रणयमन्दरान्वोक्षना त्पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम्। प्रसह्य रसयन्ति ये विगतविघ्नलब्धर्द्धयो धुरं दधति वैबुधीं भुवि भवप्रसादेन ते॥
प्रथमस्तरङ्गः मङ्गलाचरणम्
नमताघपविघ्नौघवारणं वारणाननम्। कारणं सर्वसिद्धीनां दुरितार्णवतारणम्॥१॥
नरवाहनदत्तकथा (पूर्वानुवृत्ता)
एवं स शक्तियशसं प्राप्याद्यां प्रथमाश्र तां। रत्नप्रभाद्या धनीं च मुख्यां मदनमञ्चुकाम्॥२॥ अतिष्ठद्विहरन् वत्सयुवराजः सुहृद्युतः। नरवाहनदत्तोऽथ कौशाम्ब्यां पितृपादवंग्॥३॥
रुचिरदेवपोतकयोः कथा
एकदा च तमुद्यानगतं देशान्तरागतौ। भ्रातरौ राजपुत्रौ द्वावकस्मादभ्युपेयतुः॥४॥ कृतातिथ्यप्रणतयोस्तयोरकोऽब्रभाण्व तम्। बङ्गाख्यस्य पुरं राज्ञः पुत्रावावां द्विमातृकौ॥५॥ नाम्ना रुचिरदवोऽहं द्वितीयश्चेष पोतकः। जविनी हस्तिनी मद्वैस्ति तुरगो द्वावमूप्य च॥६॥ तन्निमित्तं समुत्पन्ना विवाददपावयोर्द्वयोः। अहू जवादिकां वच्मि हस्तिनीं तुरमाद्वयम्॥७॥