भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 117, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 117

९४ कथासरित्सागर न यः निन्द्यश्च वन्द्यश्च स कामी यो जहाति ताम् । कान्तो येन बिना सा च तनुं त्यजति सुन्दरी ॥११७॥ तयात्र मह्यं नरवारः स्वर्णां पुरुषधाह्वयः । चतुर्वेदाय विधिवत् प्रदत्तो पदसंख्यया ॥११८॥ तत्सुसत्रगृहं कृत्वा स्वधर्ममिह सेवितुम् । इच्छाम तत्र भवता साहाय्यं मे विधीयताम् ॥११९॥ इति तस्य मुखाच्छ्रुत्वा प्रियावार्तां द्विजस्य सः । सद्योऽभूद्विक्रमादित्यस्तदाक्षिप्तमना नृपः ॥१२०॥ आदिश्य च प्रतीहारं द्विजस्यास्येष्टसिद्धये । विचिन्त्य दृढरागां च तां तृणीकृतजीविताम् ॥१२१॥ प्रतिज्ञासिद्धिसाहाय्ये सहसोत्कः स्वकामिनीम् । गणयित्वाल्पशेषं च तस्या देहक्षयावधिम् ॥१२२॥ सत्वरं मन्त्रिभिक्षिप्तराज्यो गत्वा विहायसा । प्रतिष्ठानं स नृपतिः प्रियावेश्म विवेश तत् ॥१२३॥ तत्र ज्योत्स्नाच्छवसनां विबुधापितवैभवाम् । कृशामपश्यत् कान्तां तां पर्वणीन्दुकलामिव ॥१२४॥ सापि नेत्रसुधासारमतर्कितमुपस्थितम् । दृष्ट्वा मदनमाला समुद्द्भ्रान्तेवाभवत् क्षणम् ॥१२५॥ आलिङ्गन्ती ततो भूयः पलायनभयादिव । कण्ठे भुजलतापाशमर्पयामास तस्य सा ॥१२६॥ किं मामनागसं त्यक्त्वा गतवानसि निष्कृप । इत्युवाच च तं बाष्पगद्गदाक्षरया गिरा ॥१२७॥ एहि वक्ष्यामि रहसीत्युक्त्वा साभ्यन्तरं रहः । तया सह ययौ राजा परिवाराभिनन्दितः ॥१२८॥ तत्रात्मानं प्रकाश्यास्यै स्ववृत्तान्तमवर्णयत् । नरसिंहनृपं युक्त्या जेतुमत्रागमद्यथा ॥१२९॥ यथा प्रपञ्चबुद्धिं च हत्वा खेचरतां ययौ । यथा नरं धनाध्यक्षात्प्राप्य सम्भज्यच ताम् ॥१३०॥ यथा च ब्राह्मणद्वारात् श्रुत्वा तत्रागतः पुनः । तत्सर्वमाप्रतिज्ञार्थानुक्त्वा भूयो जगाद ताम् ॥१३१॥