भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 123, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 123

१ कथासरित्सागर पञ्चमस्तरङ्गः राजपुत्रशृङ्गभुजस्य रूपशिखायाश्च कथा एवं कथितवत्यत्र मरुभूतौ चमूपतिः । नरवाहनदत्तस्य पुरो हरिशिखोऽब्रवीत् ॥१॥ सत्यमेव न सुस्त्रीणां भर्तुरन्यत्परायणम् । तथा च श्रूयतामेषाप्यत्र चित्रतरा कथा ॥२॥ वर्धमानपुरं नाम यदस्ति नगरं भुवि । तत्र वीरभुजाख्योऽभूद्राजा धर्मभृतां वरः ॥३॥ अन्तःपुरशते तस्य विद्यमानेऽप्यभूत्प्रभोः । एका गुणवरा नाम राज्ञी प्राणाधिकप्रिया ॥४॥ पत्नीशतस्य मध्य च न तावद् दैवयोगतः । एकस्यामपि कस्याञ्चित्सुतस्तस्योदपद्यत ॥५॥ तेन वैद्यं स पप्रच्छ श्रुतवर्धनसञ्ज्ञकम् । कश्चिदस्त्यौषधं तादृग्येन स्यात्पुत्रसम्भवः ॥६॥ तच्छ्रुत्वा सोऽब्रवीद्वैद्यो देवेनैतत्प्रसाध्यमहम् । वन्यच्छागस्य किन्तु देवेनानाय्यतां गलः ॥७॥ इत्याकर्ण्य भिषग्वाक्यं प्रतीहारं स भूपतिः । आदिश्यानाययामास तस्य च्छागवरं वनात् ॥८॥ तं छागं राजसूनुघ्नं समर्प्य स भिषक्ततः । तन्मांसे साधयामास राज्ञ्यर्थे रसमोत्तमम् ॥९॥ आदिश्यैकत्र राज्ञीनां प्रेष्य देवमर्चितुम् । गते राज्ञि मिलन्ति स्म देव्य एकत्र यत्र ताः ॥१०॥ एका तु मिलिता नासीद्राज्ञो गुणवरात्र सा । राज्ञो देवार्चनरतस्य तत्कालं निकटे स्थिता ॥११॥ मिलिताभ्यश्च ताभ्यस्तत्पानार्थं चूर्णमिश्रितम् । अविभज्यैव रसकं निधाय स ददौ भिषक् ॥१२॥ कृताप्लवार्चनः सोऽथ राजागत्य प्रियायुतः । वीथ्याद्येवोपयुक्तं तद्दृष्ट्वा वैद्यं समभ्यधात् ॥१३॥ अहो न पायितं किञ्चित्त्वया गुणवराकृते । यत्प्रधानोऽयमारम्भस्तन्मेव तव विस्मृतम् ॥१४॥

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · पृष्ठ 123, कुल 1079 में से · BharatKosha