कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 151, कुल 1079 में से
संदर्भ में पढ़ें१२८ कथासरित्सागर इति तस्या वचः श्रुत्वा सुप्ताया दुष्टचेतसः। उत्पन्ननिश्चयो राजा क्रोधादुत्थाय निर्ययौ ॥२०९॥ गत्वा स्वावासमानाय्य स जगाद महत्तरान्। उद्बुध्य तां गुणवरां स्नातामानयत द्रुतम् ॥२१ ॥ अयं क्षणो ह्यद्यतनो ज्ञानिनानिष्टशान्तये। तस्या मृग्गूढवासस्य कथितोऽभूत् किलावधिः ॥२११॥ तच्छ्रुत्वा तैस्तथेत्युक्त्वा गत्वा स्नाता विभूषिता। राज्ञी गुणवरा क्षिप्रमानिन्ये सा तदन्तिकम् ॥२१२॥ सतस्तौ दम्पती दीर्घविरहार्णवनिर्वृतौ। अन्योन्यालिङ्गनामृतौ निन्यतुस्तो विभावरीम् ॥२१३॥ अवर्णयत् स राजात्र देव्यै तस्यै मुदा तदा। तं शृङ्गभुजवृत्तान्तं तदेवं निजसूनवे ॥२१४॥ साच प्रबुद्धा राजानं गतं बुद्ध्वा सवाश्छलम्। सम्भाव्येवायशोभीता विषादमगमत्परम् ॥२१५॥ प्रातश्च स नृपो वीरभुजो गुणवरान्तिकम्। वानामयच्छृङ्गभुजं सुतं रूपशिखायुतम् ॥२१६॥ सोऽभ्येत्य मातरं दृष्ट्वा हृष्टो मृद्गृहनिर्गताम्। तयोर्ववन्दे चरणौ पित्रोर्नववधूततः ॥२१७॥ अभ्योत्तीर्णं समाश्लिष्य पुत्रं गुणवरापि सा। तां च स्नुषां तथा प्राप्तामुत्सवादुत्सवं ययौ ॥२१८॥ तत पितुर्निवेशात् स तस्यै शृङ्गभुजोऽब्रवीत्। विस्तरेण स्ववृत्तान्तं यच्च रूपशिखाकृतम् ॥२१९॥ ततो गुणवरा राज्ञी सा प्रहृष्टा जगाद तम्। किं किं न रूपशिखया कृतं पुत्र त्वदानया ॥२२ ॥ हित्वा स्वजीवितं बन्धून् देशं बहु यदेतया। भीष्योतानि प्रवृत्तानि तुभ्यं चित्रचरित्रया ॥२२१॥ त्वदर्थमवतीर्णैषा कापि देवी विधेर्वशात्। पतिव्रतानां सर्वासाम् यया मूर्ध्नि पदं कृतम् ॥२२२॥ एवमुक्ते तया राज्ञ्या सद्वाक्यमभिनन्दति। राज्ञि रूपशिखायां च विनयानतमूर्धनि ॥२२३॥