भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 161, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 161

१५८ कथासरित्सागर इत्थं सुबुद्धिरल्पेन दैव यत्नेन बोध्यते। न कृच्छ्रेणापि महता निर्विचारमतिः पुनः ॥३२॥ एवं हरिशिखनोक्ते श्रद्दधाने च गोमुखे। मरुभूतिरनात्मज्ञः क्षीबोऽतिकुपिरतोऽब्रवीत् ॥३३॥ वरं गोमुख वाच्यं न तु बाह्योर्भवादृशाम्। वाचालैः कुरुह क्लीबैनेत्रपाङ्गबाहुशालिनाम् ॥३४॥ इति ब्रुवाणं युध्यन्तुं मरुभूतिं स्मिताननः। नरवाहनदत्तोऽथ प्रभुः स्वयमसान्त्वयत् ॥३५॥ विसृज्य तं च स्वगृहं तं बालसखिवत्सलः। कुर्वन् दिवसकार्याणि निनाय सदहः सुखम् ॥३६॥ प्रातश्च सर्वेष्वायातेष्वथ मन्त्रिषु च प्रिया। रत्नप्रभा जगादैवं मरुभूतौ त्रपानते ॥३७॥ त्वमार्यपुत्र सुकृती यस्य च सचिवा इमे। आबाल्यस्नेहनिगडबिडाः शुद्धचेतसः ॥३८॥ एते च धन्या येषां त्वमीदृक स्नेहपरः प्रभुः। प्राक्कर्मोपार्जिता यूयमन्योन्यस्य न संशयः ॥३९॥ एवमुक्ते तया राज्ञ्या वसन्तकसुतोऽब्रवीत्। नरवाहनदत्तस्य नर्ममित्रं तपन्तकः ॥४०॥ सत्यं पूर्वाजितोऽयं नः स्वामी सच हि तिष्ठति। पूर्वकर्मवशादेव तथा च श्रूयतां कथा ॥४१॥ तरणचन्द्रवैद्यस्य राज्ञः अजस्य च कथा अभूच्छ्रीकण्ठनिलये विलासपुरनामनि। पुरे विनयशीलाख्या मान्धाज्यर्धेन भूपतिः ॥४२॥ तस्य प्राणसमा देवी बभूव कमलप्रभा। तया साकं च भोगैकसक्तस्तस्थौ चिराय सः ॥४३॥ अथ कालेन भूपस्य जरा सौन्दर्यहारिणी। तस्याविरासीत् तां दृष्ट्वा स चासीद्विदुःखितः ॥४४॥ हिमाहतमिवाम्भोजं पलितं म्लानमाननम्। दर्शयामि कथं वध्वे हा धिङ्मे मरणं वरम् ॥४५॥ इत्यादि चिन्तयन्सोऽथ सदस्याहूय भूपतिः। वैद्यं तरणचन्द्राख्यं विजगाद कृतादरः ॥४६॥