भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 171, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 171

१४६ कथासरित्सागर मघामिवृष्टात्तस्माच्च वटशाखावलम्बिनः। मानुपास्थिकरङ्काद्ये न्यपतस्तोयबिन्दवः ॥९२॥ नद्यास्तीर्थजले तस्यास्त्वभ्यस्तानि ददर्श सः। जायमानानि पद्मानि सौवर्णानि क्षणाद् भिषक ॥९३॥ अहो किमिदमाश्चर्यं क पृच्छाम्यजन वन। यदि वा वद कः सर्ग बह्वाश्चर्यमय विधेः ॥९४॥ दृष्टस्तावन्मया सोऽथ कनकाम्भोरुहाकरः। तदेतत् प्रक्षिपाम्यत्र तीर्थे नरकलेवरम् ॥९५॥ धर्मोऽस्तु यत्पुष्ठे व जायन्तामम्बुजानि वा। इत्यालोच्य स वृक्षाग्रात् ततं कङ्कालमक्षिपत् ॥९६॥ नीत्वा च तद्दिनं तत्र सिद्धकार्योऽपरेऽहनि। प्रत्यावत्तिष्ट स ततो भिषग्देशं निजं प्रति ॥९७॥ दिनै कतिपयै प्राप तद्विलासपुरं च सः। तस्याज्रस्य निकटं राज्ञोऽम्बुकुशभूसुरः ॥९८॥ द्वाःस्थेनावेदितो यावत्प्रविश्य धरणीनतः। स पृष्टकुशलो राज्ञा वृत्तान्तं वक्ति स भिषक ॥९९॥ तावत्स विजनं कृत्वा राजा तं स्वयमभ्यधात्। दृष्टं हुमाम्बुजोत्पत्तिस्थानं तद्वभवता सखे ॥१००॥ तत्क्षेत्रमुत्तमं चैव तत्र दृष्टस्त्वया च सः। करङ्को वटवृक्षे तां प्राक्तनीं विद्धि मे तनुम् ॥१०१॥ तदूर्ध्वपादेन मया लम्बमानेन कुर्वता। तपस्तत्र पुरा त्यक्तमुपशोध्य कलेवरम् ॥१०२॥ तपसस्तस्य माहात्म्यात्करङ्कात् प्रच्युतैस्ततः। मघाम्बुभिस्ते जायन्ते पद्मास्तत्र हिरण्मयाः ॥१०३॥ स करङ्कश्च यत्क्षिप्तस्तीर्थे तत्र मम त्वया। युक्तं तद्विहितं त्वं हि मित्रं मे पूर्वजन्मनि ॥१०४॥ एष भेषजचन्द्रश्च तथाऽसौ पद्मदर्शनः। एतावपि च तज्जन्मसङ्गतौ सुहृदौ मम ॥१०५॥ यत्तस्य तपसो मित्र प्राक्तनस्य प्रभावतः। जातिस्मरत्वं ज्ञानं च राज्यं चोपगतं मम ॥१०६॥