भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 177, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 177

१५२ कथासरित्सागर मर्त्या मरणधर्माणस्तन य किल निर्मिताः । साधयित्वामृतं यत्तानमरांकर्तुमिच्छसि ॥१७॥ एवं कृते विपर्ययो हि न स्याद् देवमनुष्ययोः । यष्टव्यायाजकाभावाद् भज्यते च जगत्स्थितिः ॥१८॥ तदस्मद्वचनादेतत्संहरामृतसाधनम् । अन्यथा कुपिता देवाः शापं दास्यन्ति ते ध्रुवम् ॥१९॥ यच्छोकादेष यत्नस्त स स्वर्गे त्वत्सुतः स्थितः । इति सन्दिश्य शक्रस्तौ प्रजिघायाश्विनावुभौ ॥२०॥ तौ चागत्य गृहीतार्थो तदागमनतोषिणम् । ऊचतुः शक्रसन्देशं तस्मै नागार्जुनाय तम् ॥२१॥ पुत्रं जगदतुश्चास्य दिवि देवैः समं स्थितम् । ततो नागार्जुनः सोऽत्र विषण्णः सन्नचिन्तयत् ॥२२॥ न करोमीन्द्रवाक्यं चेद्देवास्तत्तावदासताम् । इमावेव न किं शापमश्विनौ मे प्रयच्छतः ॥२३॥ तदेतदास्ताममृतं न सिद्धो मे मनोरथः । पुत्रश्च मे प्राक्सुकृतैरौर्ध्व्यां स गतो गतिम् ॥२४॥ इत्यालोच्याश्विनौ देवौ सोऽथ नागार्जुनोऽब्रवीत् । अनुष्ठिता मयेन्द्राज्ञा संहराम्यमृतक्रियाम् ॥२५॥ पञ्चाहेनामृते सिद्धे कृतैवैषाजरामरा । मयाऽभविष्यत्पृथिवी युवां चैत्रागमिष्यतम् ॥२६॥ इत्युक्त्वा तत्समक्षं तत्तद्द्रव्यान्निक्षखान सः । धरण्याममृतं सिद्धप्रायं नागार्जुनस्तदा ॥२७॥ ततोऽश्विनौ तमापृच्छय गत्वा शक्राय तद्दिवि । आचख्यतुः कृतं कार्यं ननन्दाथ च देवराट् ॥२८॥ तावच्चात्र चिरायुः स राजा नागार्जुनप्रभुः । पुत्रं जीवहरं नाम यौवराज्येऽभिषिक्तवान् ॥२९॥ अभिषिक्तं च तं माता प्रणामाथमुपागतम् । राज्ञी धनपरा नाम दृष्ट्वा दृष्ट्वावाब्रवीत्सुतम् ॥३०॥ यौवराज्यमिदं प्राप्य पुत्र हृष्यसि किं मुधा । राज्यप्राप्त्यै क्रमो ह्येष नृपसां च न विद्यते ॥३१॥

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · पृष्ठ 177, कुल 1079 में से · BharatKosha