कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 193, कुल 1079 में से
संदर्भ में पढ़ें१६६ कथासरित्सागर ताभ्यां समं च सोऽपुत्रो राजा पुत्रार्थमम्बिकाम्। भाराधयन्निराहारो धर्मशाली व्यषात्तपः ॥५६॥ तत सा च तपस्तुष्टा स्वप्ने दत्त्वा फलद्वयम्। दिव्यं समादिशत् साक्षाद् भवानी भक्तवत्सला ॥५७॥ उत्तिष्ठ देहि दारेभ्यो भक्ष्यमेतत्फलद्वयम्। ततो राजन् प्रवीरो त जनिष्येत सुतावुभौ ॥५८॥ इत्युक्त्वान्तर्दधे गौरी प्रबुद्धः स च भूपतिः। ननन्द प्रातरुत्थाय हस्ते पश्यञ्छुभे फले ॥५९॥ स्वप्नेन तेन चानन्दं वर्णितेन परिग्रहम्। स्नातो मृडानीमभ्यर्च्य चकार व्रतपारणाम् ॥६०॥ नक्तं चोपेत्य तां पूर्वं राज्ञीमधिकसङ्गमाम्। [L13: फलमेकं ददौ तस्यै सा च तद् बुभुजे तदा ॥६१॥ ततस्तन्मन्दिरे तस्यामुवास स नृपो निशि। तत्पितुर्मन्त्रिमुल्यस्य निजस्य किल गौरवात् ॥६२॥ तच्चात्र निदधे सम्प्रत्यात्मशय्याशिरोऽन्तिके। द्वितीयायाः कृते देव्या द्वितीयं कल्पितं फलम् ॥६३॥ सुप्तस्याथ नृपस्याथ राज्ञी साधिकसङ्गमा। उत्थायात्मन एव द्रागिच्छन्ती सदृशौ सुतौ ॥६४॥ धीपन्ताद् भक्षयामास द्वितीयमपि तत्फलम्। निमग्नमिश्रा नारीणां सपत्नीषु हि मत्सरः ॥६५॥ प्रातश्चोत्थाय चिन्वानं तत्फलं तं महीपतिम्। मयैव तत्फलं भुक्तं द्वितीयमिति साऽब्रवीत् ॥६६॥ ततः स राजा विमना निगत्यातीर्य वासरम्। भक्त्या तस्या द्वितीयाया देव्या वासगृहं ययौ ॥६७॥ तत्र तत्फलवार्त्तां तां याचमानां च सोऽब्रवीत्। सृजत्य मे सपत्न्यानात् सपत्नी त छलादिति ॥६८॥ मत मा तनयोत्पत्तिहेतुमप्राप्य तत्फलम्। बभूव बाष्पसम्पूर्णा रात्री तूष्णीं मुदु स्थिता ॥६९॥ [L30: गच्छतात्यल्प निष्पन्न गर्भो मार्जधिवमद्भुता। गर्भाभिमूद्भूताय कान्ते द्वौ युगपत् सुतौ ॥७०॥