कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 195, कुल 1079 में से
संदर्भ में पढ़ें१६८ कथासरित्सागर राजापि स तदुत्पत्तिफलितस्वमनोरथः । नन्दति स्म परित्यागसेनः कृतमहोत्सवः ॥७१॥ तयोश्च सुतयोर्ज्येष्ठमिन्दीवरनिभेक्षणम् । नाम्नेन्दीवरसेनं स नृपश्चक्रेऽमृताकृतिम् ॥७२॥ विषमेण कनीयांसमनिच्छासेनमाख्यया । तज्जनन्यै यतो भुक्तं फलं तत्तदनिच्छया ॥७३॥ अथात्र तस्य राज्ञी सा द्वितीया भूमिपस्य तत् । आलोक्य काष्र्ण्यालङ्कारा सामर्षं समचिन्तयत् ॥७४॥ अहो अहं सुतप्राप्तौ सपत्न्या वञ्चितैतया । तत्तस्या मयाऽवश्यं कार्या मन्युप्रतिक्रिया ॥७५॥ विनाश्यौ तनयावेतावेतदीयो स्वयुक्तितः । इति सञ्चिन्त्य सा तस्थौ तदुपायं विचिन्वती ॥७६॥ यथा यथा च तौ तत्र व्यवृधाते नृपात्मजौ । तथा तथास्या ववृधे हृदये वैरपादपः ॥७७॥ क्रमेण यौवनस्थौ च तौ विज्ञापयतः स्म तम् । राजपुत्रौ स्वपितरं जिगीषू भुजशालिनौ ॥७८॥ अस्त्रेषु शिक्षितौ तावद्यावां सम्प्राप्तयौवनौ । सद्भुजान् विफलानेतान् विभ्रतौ कथमस्वाहे ॥७९॥ क्षत्रियस्याजिगीषोस्य धिग्बाहुं धिक् च यौवनम् । अतोऽनुजानीह्यधुना तात दिग्विजय्याय नौ ॥८०॥ इति सून्वोर्वचः श्रुत्वा राजा हृष्टोऽनुमन्य सः । यात्रारम्भं परित्यागसेनो व्यदधे तयोः ॥८१॥ यच्चैतन्महद् जातं युवयोः स्यात्तदम्बिका । स्मर्तव्याऽर्तिहरा देवी तया दत्तौ हि मे युवाम् ॥८२॥ इत्युक्त्वा च स तौ राजा यात्रायै प्राहिणोत्सुतौ । युक्तौ सैन्यै रथामात्यैर्जनन्यै कृतमङ्गलौ ॥८३॥ निजं मन्त्रिप्रधानं च पश्चात्तातस्तयोस्तदा । प्रणामाहार्यं व्यसृजद्धाम्ना प्रथमसङ्गतम् ॥८४॥ अथ तौ राजपुत्रौ द्वौ सबलौ भ्रातरौ व्रजन्न् । गत्वा प्राचीं दिशं पूर्वं जिग्यतुः प्राज्यविक्रमौ ॥८५॥