कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 23, कुल 1079 में से
संदर्भ में पढ़ें१० कथासरित्सागर तत्र विक्रमतुङ्गाख्यो राजाभूत्सत्त्ववान्पुरा। योऽभूत्पराङ्मुखो दाने नार्थिनां न युधि द्विषाम्॥५५॥ स जातु मृगयाहेतो प्रविष्टो नृपतिर्वनम्। बिल्वैर्होमं विदधतं तत्र ब्राह्मणमैक्षत॥५६॥ तं दृष्ट्वा प्रष्टुकामोऽपि परिहृत्य तदन्तिकम्। ययौ स दूरं मृगयारसेन सबलस्ततः॥५७॥ उत्पतद्भिः पतद्भिश्च हन्यमानेः स्वपाणिना। चिरं मृगैश्च सिंहैश्च क्रीडित्वा कन्दुकैरिव॥५८॥ आवृत्तस्त उपेयात्र दृष्ट्वा होमपरं द्विजम्। उपेत्य नत्वा पप्रच्छ नाम होमफलं च सः॥५९॥ ततः स ब्राह्मणो भूपं कृताशीस्तमभाषत। विप्रोऽहं नागशर्माख्यो होमे च श्रृणु मे फलम्॥६०॥ अनेन बिल्वहोमेन प्रसीदति यदानलः। हिरण्मयानि बिल्वानि तदा निर्यान्ति कुण्डतः॥६१॥ ततोऽग्निः प्रकटीभूय वरं साक्षात् प्रयच्छति। वर्त्तते मम भूयांश्च कालो बिल्वानि जुह्वतः॥६२॥ मन्दपुण्यस्य नाद्यापि तुष्यत्येव स पावकः। इत्युक्ते तेन राजा तं धीरसत्त्वोऽभ्यभाषत॥६३॥ तर्हि मे देहि बिल्वं त्वमेकं यावज्जुहोमि तत्। प्रसादयामि च ब्रह्मन्नधुनेव तवानलम्॥६४॥ कथं प्रसादयसि त्वं वह्निमप्रयतोऽप्यधि। यो ममैवं प्रत्तस्तस्य पूतस्यापि न तुष्यति॥६५॥ इत्युक्तस्तेन विप्रेण राजा तमवदत्पुनः। मैवं प्रयच्छ मे बिल्वं पश्याश्चर्यं क्षणादिति॥६६॥ ततः स राज्ञे विप्रोऽस्मै ददौ बिल्वं सकौतुकः। राजा च स तथा तत्र वृद्धसत्त्वेन चेतसा॥६७॥ हुतेनानेन बिल्वेन न चेत्तुष्यति तच्छिरः। स्वमग्ने ते जुहोमीति ध्यात्वा तस्मिञ्जुहाव तत्॥६८॥ प्राविरासीच्च सप्ताचिः कुण्डाद् बिल्वं हिरण्मयम्। स्वयमादाय तत्तस्य फलं सत्त्वतरोरिव॥६९॥ जगाद च स साक्षात्तं जातवेदा महीपतिम्। सत्त्वेनानेन तुष्टोऽस्मि तद्गृहाण वरं नृप॥७०॥