कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 231, कुल 1079 में से
संदर्भ में पढ़ें२०२ कथासरित्सागर विक्रिता सङ्गतान्येन मूर्खा तस्य कथं पुनः। भार्या भवामि निर्लज्ज स यथा किमहं तथा॥९५॥ यूयमेव मम ब्रूत यदेतच्छोभतेऽधुना। तद्धात् येन क्रीतास्मि स एव हि पतिर्मम ॥९६॥ इत्युक्तास्ते तया भृत्यास्ततो गत्वा तमैव तत्। अब्रुवन्नर्थलोभाय वाक्यं तस्या अधोमुखाः॥९७॥ स तच्छ्रुत्वा बलादेच्छादानेतुं तां नराधमः। ततो शूरबलो नाम वयस्यस्तमभाषत॥९८॥ न सा सुलधनात्तस्मादानेतुं शक्यते त्वया। प्रवीरस्य न तस्याग्रे तव पश्यामि धीरताम्॥९९॥ स हि त्यागानुरागिण्या नार्या शूरीकृतस्तया। बली च बलिभिर्जन्यैर्युक्तो मित्रैः सहागतैः॥१००॥ त्वं तु कार्पण्याक्रीतविविक्तदयिताज्झितः। अवमाननिरुत्साहो गर्हितः क्लीबतां गतः॥१०१॥ न च स्वतः बली तावृद्ध न च मित्रबलान्वितः। तत्कथं त्वं समर्थः स्यास्तस्य प्रत्यर्थिनो जये॥१०२॥ राजा च कुप्येद् बुद्ध्वा ते दारविक्रयदुष्कृतम्। तत्तूष्णीं भव भूयोऽपि मा कृथा हास्यविभ्रमम्॥१०३॥ इति सख्या निषिद्धोऽपि क्रोधाद् गत्वा ससैनिकः। यावद् रुणद्ध्यर्थलोभो गृहं सुलधनस्य स ॥१०४॥ तावत्तस्य समित्रस्य सैन्यैः सुलधनस्य तत्। सैन्यं तदीयं निर्गत्य कृत्स्नं भग्नमभूत्क्षणात् ॥१०५॥ ततः पलायितः प्रायात्सोऽर्थलोभो नृपान्तिकम्। दाराः सुलधनाख्येन वणिजा देव मे हृताः॥१०६॥ इति व्यजिज्ञपत्तत्र नृपं निहुतदुर्नयः। नृपोऽप्यैच्छदवष्टब्धुं स तं सुलधनं रुषा॥१०७॥ ततः सम्भाजनामा तं मन्त्री राजानमब्रवीत्। यथा तथा न शक्योऽसाववष्टब्धुं वणिक्प्रभो॥१०८॥ तस्यैकादशभिर्मित्रैः सहायातैर्युतस्य हि। सङ्खमभ्यधिकं देव वर्तते वरवाजिनाम् ॥१०९॥